Book Title: Amrutvimal Charitram Author(s): Shantivimal Publisher: Amrut Himmat Granthmala View full book textPage 8
________________ बोधोऽदायि तत्तु प्रकरणेनानेनानुमीयते पातशाहेरककवरस्य पश्चात्तस्य प्रपौत्रशाहजानेति नीतिशाली राज्य पडंगज्ञानवान् स्वजातीयजनेषु चेतरेष्वार्यजनेषु पक्षपातरहितया बुद्धयाऽवर्तत / यद्राज्ये स्वधर्मपालने : सर्वा अपि प्रजाः स्वतंत्रा अभूवन // केषांचिदपि स्वस्वधर्मपालने कोप्युपरोधो नासीत् / ते राजानोऽपि धर्मतत्त्वमवगाहमानाः स्वस्वधर्मावलंविनामार्यविदुपां वातं समाहृय स्वसदसि वादं विधाप्यार्यधर्म प्रति दर्शितादरा अजनिपत / पितर्युपरते यदा शाहजानो राज्यधुरामुवाह तदानीमपि यवनपातशाहीनां विभूतिवर्णनीया | बभूव / येषां विभवानां समालोकनेच्छया चीनजापानजर्मनांगलदेशीयाःसर्वा अपि प्रजाः स्वबुद्धिनिर्मिताग्निरथानलनौकादिसाधनान्यवलंव्य देवा विमानानीव समागच्छन्ति प्रतिसंवत्सरमायभूमाविन्द्रप्रस्थनगरम् / यत्र शाहजानपातशाहिः स्वप्राणप्रियाया मुमताजनामकमहिष्याः कवरोपरि नवकोटिधनव्ययेन विभवानां साक्षात् प्रतिविम्वमिव ताजमहालनामकं प्रासादमचीकरच्छिल्पिभिः, यस्य शोभां दर्शदर्श जनाः कौतुकिनो भवन्ति। एतादृशः प्रासाद आर्यभूमावन्यत्र कुत्रापि नास्ति, अस्यामायभूमाविदमेवावलोकनीयमस्त्यन्यजनपदापेक्षयेति सर्वैरपि जनैर्मन्यते / तत्स्थानापेक्षपासाधारणानि यवनधर्मस्थानान चान्यधर्मस्थानान्यपि जनाश्चर्यकराणि भवन्ति, यैःस्थान प्राचीनवैभव आर्यभूमौ कीदृशोऽभूदित्यनया कार्यनिर्मित्यानुमीयते जनैः।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60