Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 33
________________ हमारपरमपराय:५५सयपापल्या पर धितितीर्षया परमगुरु पदेशमयीं धर्मनीकां मृगयितुमागतौ स्वः / तादृशगुरोःसमीपे पारिवाज्यं गृहीत्वाऽऽत्मोन्नतिकरणाय निजगृहान्निर्गती स्वः / इत्येवं प्रश्नप्रतिवचनं ददावमरचन्द्रः, पश्चात् किंचित्कालं तत्र स्थित्वा गुरुवन्दनं कृत्या स्वभ्राना मह स्वावमोचनं प्रत्याययौ / गुरुप्रथमदर्शनसमय एवामरचन्द्रस्य गुरूपरि परं प्रेमाविर्वभूव, पश्चाच्छनी भ्रातरौ गणिवर्यस्य संगति विदधतुः। तस्य संसारनिवतेनकरी देशनां पुनः पुनः श्रुत्वा / तयोर्यथा यथा गणिवर्यस्य संगतिखर्धत तथा तथा गुरुं प्रति विशेषतः सद्भावना दृढीभूता समजायत / अमर- / चन्द्रस्य हृदये दीक्षाग्रहणवीजं नवपल्लवितमभूत् / ताभ्यां निश्चितं च यदि दीक्षा स्वीकार्या चेदस्मादगुरोरेव / / गृहणीया नान्यस्मात् / एतादृशशान्तमूर्तिसाधुलक्षणसंपन्नादस्माद्गुरोरेवास्माकं परमोद्धारो भविष्यति, अतोऽस्माद् गुरोरेव संसारोच्छेदकरी दीक्षां स्वीकार्य तस्य चरणकिंकरौ भूत्वा तस्याश्रयच्छायामाश्रित्य शिववर्त्मनि यतितव्यं लोककल्याणमार्गेऽपि च / एवममरचन्द्रः स्वमनसि निश्चिकाय / अथ कोऽसौ दयाविभलगणिरित्याकांक्षायां तस्य पट्टपरंपरां वक्ति-तपोगच्छपरंपरायाः षट्पञ्चाशत्तमे पट्टे स्थितस्यानन्दविमलसूरेः परंपरागतविभलगच्छस्थितपट्टधरः पन्यासपदधारी दयाविमलगणिरभवत् , तत्समये राजनगरश्रष्ठिषु मुख्यतया गणनां प्राप्तः श्रेष्ठी मनसुखनामापरश्च यमुनाख्यश्र, तौ द्वौ दयाविमलगणेः वशंवदावभूताम् / गणिवर्यस्य तत्समये राजनगरे

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60