Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 49
________________ | मभूमिर्महद्भाग्यं चास्माकमिति मत्वा ते जनास्तस्मिन् विशेषतो भावं दधुः। अस्य गणिवर्यस्यैतादृशेन प्रभावेणेष महान् तपस्वी देवांशवान् पुरुष इति च विज्ञायते स्म / ग्रामानामान्तरं गंतव्यं मुनिभिनॆकत्र Ka स्थातव्यमिति वार्ताऽन्यैव, पुनश्च विहारकर्तृणां मुनीनां यत्र ग्रामे विहारः स्यात्तत्र तत्र धार्मिककृत्यानि कर्त व्यानि, धर्मप्रवर्तनं विधातव्यम , जनताकल्याणाय चित्तप्रवृत्तिः कर्तव्या, सर्वथा लोकस्थितिरपि ज्ञातव्या. शिष्टजनैः सह संस्तवो विधातव्यस्तेभ्योजनेभ्यो मानप्रतिष्ठा सम्यक् संपादनीया। एतादृशेन नियमेन विहरणं मुनीनां फलदायकमन्येषां च हितकरं भवति, अस्मिञ्जगति बुद्धिवर्धकं च / गुरुवर्यस्यामृतविमलगणिवर्यस्य सर्वेऽपि विहारा एतादृशीं दृष्टिमवलंब्याभवन् इति विज्ञायते तस्य चरितैः॥ * इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्य हिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीय गणिवर्यामृतविमलचरितेऽष्टमं प्रकरणम् / /

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60