Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ हिम्मतविमलगणिवर्यस्योग्रतपस्वी मुनिराजहंसविमल आसीत् तस्य शिष्यत्रयमस्ति, तस्य प्रथमशिष्यः प्रेमविविमलनामधेयो द्वितीयोन्यायविमलनामा तृतीयो हर्षविमलनामकश्चास्ति / पन्यासपदधारिणो हिम्मतविमलगणिवर्यस्य द्वितीयशिष्यः शान्तिविमलो नाम्नास्ति, तस्यापि विनेयद्वयमस्ति, तत्र प्रथमशिष्यो रत्नविमलाभिधेयो द्वितीयो देवविमलाभिधश्वास्ति / एवं विस्तृतशिष्यवर्गस्य सर्वोऽपि व्यवहारः पन्यासपदवीं धृतवतो. हिम्मतविमलगणिवर्यस्याधीनोऽस्ति, सवै शिष्याः कथं विनीता भवेयुः कया च पद्धत्याऽऽगमशास्त्रकाव्यन्यायादिशास्त्रेषु प्रवीणाः स्युरिति मनसि सर्वदा तेषां हितं चिन्तयति गुरुः, अत एव शिष्यवर्गीयां सर्वा धुरं स्वयमेक एवोदवहति, तस्य गणिवर्यस्य प्रकृतिः शान्ता सर्वजनहृदयंगमा व्यवहारकुशला च भवति, सर्वशिष्यवर्गस्यापि प्रियतरप्रभावा चास्ति / अद्य तस्य गणिवर्यस्य सेवायां सदाविरतः शान्तप्रकृतिगुरुवचन-3 पथप्रवर्तनशाली शान्तिविमलनामा मुनिरस्ति / गुरुदेवामृतविमलगणिवर्यस्य शरीरं काल बर्म प्राप्तम् , परं. / तस्यानुयायिविनेयवर्गोऽपि तस्य गृहिणः सेवकाश्च तस्य गुणवर्णनं कुर्वन्तस्तथा तेन कृतोपकारान् संस्मरन्ति नित्यशः, परं च बहूनि वर्षाणि संजातानि / तथापि ते गुरोर्गुणगणान् मनागपि न विस्मरन्ति / आत्मास्ति मृतिशून्यः प्रेमपात्रं गुरुदेवस्तथा भवतामात्मा यत्र कुत्रापि स्यात्तत्रेयं शिष्येण कृता गुणवर्णनकुसुममाला हाहाहाकारमहर

Page Navigation
1 ... 55 56 57 58 59 60