Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 51
________________ जना योग्यतया सत्कुर्वन्तिस्म, परं तस्य चित्ते या जैनधर्मप्रवर्तनेच्छा सा संपूर्णा नासीत् / यत्र गणिवयों व्यहात्तित्र धर्मप्रचारमकरोत् / धर्मकार्येषु तथा महाजनवृन्देषु बहुक्लेशवत्सु तेषूपदेशं विधाय मुनिस्तेषां : क्लेशान वारयामास, प्रभूतेषु स्थानेषु धर्मः किं वस्त्वस्तीति जना न जानन्ति, तत्र गणिवों धर्मोपनिपदम् बोधयित्वा जनान् धर्मकार्यपु प्रवर्तितवान् / प्रेम चाविर्भावयामास तत्र जैनजैनेतरेष्वपि सोऽमृतविमलगणिवों धर्मकार्याणि कारयामास, स यत्र यत्र चतुर्मासीमकरोत्तत्र तत्र तस्य सुधासमानगिरा कर्षिता लोका जैनजैनेतरा अपि देशनां श्रुत्वा हर्षिता अभवन् / भिन्नभिन्नग्रामेषु पृथक् पृथक् स्वभाववतां जनानां परिचयेन पवित्रविहारेषु जनतादरेषु मुनिवर्यस्यापि बुद्धेः कषारूढत्वं संजातमभूत् / कथं तेभ्यो धर्मोपदेशो दातव्यो कार्याणि कारयितव्यानि चैत्योपाश्रयादिनिर्माणं विधापयितव्यं तेषाममृतकल्पया गिरा तुष्टिः / संपादनीया चेति गणिवर्यस्य कर्तव्यमासीत् / अस्य गणिवर्यस्यामृतविमलस्य समये यः साधुसमुदाय आसीत् तत्समयेऽयं गणिवर्यः सुशीलः कृतागमाभ्यासस्तेजस्वी प्रतिभावान् मनीषी चाभवत् / स्वस्य जीवनसमये तपस्याधर्मोपदेशोपधानादिव्रतानि चागमत्रतानि वार्षिकतपांसि घटवतानि शत्रुजयनवनवतियात्रादि कारयामास / तेन धर्मोद्योतने स्वजीवनस्य सर्वोऽपि भागो गणिवर्यो दापयति स्म, तथा तीर्थ

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60