Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 48
________________ वनसा व्याख्यानं कर्तुमारेभे, ततो व्याख्यानमध्यसमयानन्तरं गुर्जरभाषया कविभिनिर्मितानि तीर्थ करदेवयशोमिथितानि पद्यानि वनितान्दो मधुररागेण सदस्यगायतोचैस्तत्समयेऽवृतविमलगणिवर्यो 24 अमृतरि-वाचनसमये स्वमुखबद्धां मुहपत्ति हस्तकृत्य पुनः पुनः संगमर्द, पुनर्व्याख्यानारम्भः समजायत / तर गुरुवर्यस्यैतां चेष्टां विलोक्य तवृत्तांतजिज्ञासुभिः श्रावकैाख्यानसमाप्त्यनन्तरं पपृच्छे “गुरुदेव ! अत्रभवान् मुहपत्तिं पाणीकृत्य कथं मर्दितवान् ? तदा तज्जनानां गणिवर्येण प्रश्नप्रतिवचनं ददे-पालिताननगराभ्यण स्थितशत्रुञ्जयपर्वतोपरि भगवत आदिनाथस्य प्रासादे दीपशिखया वितानं ज्वलति / सम, तदनि शमयितुं मुहपत्तिर्मया पाणीकृत्य मृदिता, तेन वितानस्थितोऽनलः शान्तः। महाराजस्यैपा वार्ता सत्या किमिति निश्चेतुं जनजिज्ञासा संववृधे, तेषु कतिचिच्छावकास्तमिणेतुं विद्युयंत्रमुखेन l स्वसंस्तववतो जनानेतं वृत्तान्तं प्रच्छयामासुस्तदा तन्निवासिजनैस्तेनैव यन्त्रेण सूचितम्-अयं सर्वोऽपि वृत्तान्तः सत्य एव कुतोऽस्माभिर्देवाराधकपुरुषाः पृष्टाः तैरुक्तं वायुनिमित्तचलनेन वितानं दीपशिखां पस्पर्श, जज्वाल च, पश्चात् केन कारणेन शान्तोऽनल इति न ज्ञायतेऽस्माभिः। गणिवर्यस्यैतां चमत्कृति विलोक्य | तत्रत्यजनास्तस्मिन गुरौ श्रद्धावन्तोऽभवन् / एतादृशवचनसिद्धपुरुषस्य पादन्यासैः पवित्रितास्माकीनग्रा

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60