Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 31
________________ सहकहरहवाबाहदाय पाइरहराकर नार्थमने के जना यथा सभृहयन्ति तदवदत्रापि जनसंमर्दो महता प्रमाणेन विद्यते / धूमशकटस्य तृतीयवर्गस्थानस्य नामधेयमांग्लभाषायां थर्डक्लास इति कथयन्ति जनाः / तत्र स्थाने केचन जनाः स्वस्वपादान है प्रसार्य प्रस्वपन्ति, केचन नर्मकर्मकुशला नर्मवचांस्युचायन्ति, केचिदद्विपंचाशत्पत्रात्मकं रक्तश्यामलितमंकान्वितं क्रीडनकवस्तु गृहीत्वा परस्परं रमन्ते रात्रिनिर्गमाय, केचन नर्मवचस्यट्टहासेन निद्रितजनानुपप्लवयन्तिस्म / धूमशकटस्य कनिष्ठवर्गस्थानं तु विविधस्वभाववज्जनसमुदायेन जगदर्पणमिव प्रतिभाति, कजनसमुदायेन येषामानन्दजिघृक्षा चेत्तत्रैव स्थातव्यम् / द्रष्टारोऽपि विविधस्वभाववतो जनाननुभवन्ति / एतादृशविविधस्वभावैर्मनुजैः पूर्णस्यामिरथस्य तृतीयवर्ग निषण्णोऽमरचन्द्रोऽपि स्वबंधुना शकुनराजेन सह पान्थतां विदधे / दीर्घप्रवासतया शकुनराजस्य सर्वसंकल्पशमनी निद्रा संप्राप्ता, अमरचन्द्रो जानदेवाभवत् , भाविचिन्तनां च चकार / अनलरथः स्वगतिशीघ्नतया प्रस्रवणगिरिमुल्लंघ्याम्रनिम्बमधुकप्रियंगुपादपैः पूर्णा गुर्जरभूमि प्रविवेश, धूमशकटमार्गमुभयतः शाहलभूमि सस्यपूर्णानि च क्षेत्राणि विलोक्य मरुभूमितः समागताः पान्थलोका जहृषुरानन्दं च लेभिरे / अमरचन्द्रोऽपि स्वभ्रात्रा सहावर्णनीयगुर्जरभूमिसौंदयं विलोक्य ननन्द / शनैःशनै राजनगराभ्यर्णता समागता / तदामरचन्द्रस्य मनसि नवीनमनो

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60