Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 37
________________ मासी नावसत् परंतु शाहपुरनिवासिसंघजनैरादरपूर्वकं कृतां विनतिं श्रुत्वान्यमासचतुष्टयं श्रीनगरस्थितशाहपुरे मंगलश्रेष्ठिपाटकेऽकरोत् , तत्रापि चतुर्मासाभ्यन्तरे तत्रत्यजनान् सूक्ष्माणामपि तत्वानां निरूपकाणां ज्ञानपूर्णतादर्शकानां च महापुरुषाणां शासनाग्रयतासम्पादकानां पंचचत्वारिंशदागमानां व्रतं कारयित्वा "जनैख़ने कीदृगादरः कर्तव्य” इतिज्ञानमाहात्म्यं सम्यग् दर्शयित्वा तपश्चर्याप्रभावमपि सम्यक् संश्राव्य धर्मसूर्योद्योतेन जनमनःकमलान्युइघाटयामासिवान् / तृतीयां चतुर्मासीमपि तत्र श्रीनगर एव सोपानाश्रयनामकोपाश्रये तत्रपाटके पाटकजनाग्रहात सशिष्यो मुनिरकरोत् / तस्य गणिवर्यस्य वाणीप्रवाह एतादृशोऽभवत् तत्रत्यजना मुनौ स्नेहला बभूवुस्तस्य ज्ञानागाधतां व्याख्यानपद्धति चालौकिकी विज्ञाय सर्वे मोहिताः संजाताः। अत्रत्यचतुर्मास्यां तत्रत्यजनान् सिद्धितपसः प्रभावं ज्ञापयित्वा सिद्धितपोऽचोकरत् / अस्मिन् सिद्धितपसि पंचशतं जनानां समुदितमभूत् / तेपामग्रे तत्तपसो महिमानं व्याख्यौ / अस्मिन् / जगति महालब्धयः प्रोन्नताः शक्तयश्च पूर्वाचार्येमहाप्रयत्नैः संपादिताः सन्ति तपोबलात् , यतो जनैर्यथाशक्ति सिद्धितपसि यतितव्यं, तथैवैतानि तपांसि शास्त्रोक्तविधिना सौष्ठवेग साधर्णिकवात्सल्येन धर्मवत्सलतया चोद्यापनीयानि, यामुद्यापनां दृष्ट्वा जना ज्ञानाय प्रवर्तेरन् तथैवाचरणमपि कुर्युस्तपोमहिमानमपि। 10

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60