Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ णितं वस्तु सर्पमित्रेभ्यो ददातिस्म / विद्योपास्ति कृतवतोऽमरचन्द्रस्य पाठशालायामध्यापकेनैतादृशो नियमो विज्ञापितो-यः कश्चन च्छात्रः पाठशालां प्रथममेव समागच्छेत् स प्रथमांकस्थानमेवाश्रयेत्। तस्य प्रथमांकचरि- संपादने मनस्येतादृशी तीवेच्छा समजायत यथा प्रभात उत्थाय वीतरागप्रभु स्मृत्वा स्नानादि नित्यकृत्यं विधाय भोजनादि कृत्वा प्रत्यहं शुद्धवस्त्राणि परिधाय सर्वच्छात्रेभ्यः प्रथममेव पाठशालां नित्यशो गच्छतिस्म, स एव प्रत्यहं पाठशालायां प्रथमांकमाददातिस्म / शनैः शनैरेवं सोऽप्यभ्यासं विधाय पंचभपाठयपुस्तकाभ्यासं समाप्तवान् / अनया रीत्या तस्याभ्यासक्रम उज्वलतां प्रातः सर्वजनानां संतोपोद्भावकश्चाभूत् / तस्य पिता वीरसेनस्तस्य बुद्धिविकसनं यथा भवेत्तथाविधमेव प्रयत्नं चकार // किंच रमणीयताविलसितस्य नगरस्य गंधादिसिक्तं निधूलिकं राजपथं सायं भ्रमितुं सपुत्र एव र प्रत्यहं जगाम / पथि प्रचलनसमये श्रेष्ठी स्वपुत्रेण यः पाठशालायामभ्यासः कृतस्तविषयकानेव प्रश्नान् पप्रच्छ वालम् / एवं स्वात्रशिक्षणकार्ये प्रत्यहं स रसज्ञ आसीत् / यदाऽमरचन्द्रस्य शिक्षणं पूर्णतामवाप तावतस्य मानसिकमवृत्तीनामपि शुभतत्त्वानि शनैःशनैरुद्घाटितानि संजातानि, तदा सूक्ष्मा महती च - प्रकृतिः शरीररचनया महोदासतां प्राप्ता तस्य मनसि स्वतंत्रतया स्थिता रुचिररुचिरपि स्पष्टतया शरीरेण हाहाहाहरूपमापारकर

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60