Book Title: Amrutvimal Charitram Author(s): Shantivimal Publisher: Amrut Himmat Granthmala View full book textPage 9
________________ एतादृश इन्द्रप्रस्थनगरेऽस्माकं कथानायकस्य परमपूज्यस्य गणिवर्यस्यामृतविमलगुरोः प्रादुर्भावो बभूव / पूर्ववर्णितसुषुमाविशिष्टस्य नगरस्याभ्यर्णे प्राकारस्पर्शिशीतजलविशिष्टाया यमस्वसुरुत्तुंगतरंगसंपर्केण || शीतलीभूता यमुनाजलपानवर्धितानेकपादपप्रसूनचयगन्धवन्तो वायवो विषयान्तरागतसौन्दर्यनिरीक्षण- | कौतुकिनां जनवृन्दानामितस्ततःपरिभ्रमणवशाज्जनितश्रमजातस्वेदलवानाचामन्ति / अस्य नगरस्य सर्वशोभानिरीक्षणकारिभिः स्वरचितदेशयात्रानिबंधे बहुशःशोभा वर्णितास्ति / जगतीप्रसिद्धस्य यस्य नगरस्य मध्ये पातशाहिराज्येऽप्याचार्यदेशनया वात्यया प्रेरिता धर्मपताका इतस्ततः परिस्फुरन्तिस्म / चरमतीर्थकर| स्य महावीरस्य भवाब्धितारकमहामंत्रस्य प्रवर्तकाः पापपंकनिममजनतासमुद्धरणाय समर्था जैनाचार्यास्तत्समयेप्यपि व्यहरन् परं तत्र हैमोपमानां साधूनां मध्ये हीरक इव हीरसूरीश्वरो यदा पातशाहूंकमलं जैनधर्मोपदेशेनोइबोधयामासोष्णदीधितिजमिव तदास धर्मोपनिषदं श्रुत्वा यवनोऽपि जैनधर्मकृतादर आचार्योपदेशात् सर्वजनानां यत्करादानं तनिवारयामास / आर्यप्रजानामन्यदपि याचितं प्रसन्नतया ददौ / पर्युषणपवेणि चोमारि प्रवतयामास / एवं जैनधर्मजिज्ञापयिषवो धर्मतत्त्वे श्रद्धोपपादकाःश्रीहीरसूरीश्वरादय आचार्या खल्वपूर्वपुरुषा नरवीरा अस्मिन् धर्मे समजायन्त। यवनराजधानीसमयेऽप्यस्मिन्नगरे जैनधर्मस्य मध्यान्होऽPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60