Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ समयातीतवसुनिधिवस्वेकवर्षे वैशाखशुक्लैकादशीदिने केन्द्रस्थानस्थितशुभग्रह उच्चराशिस्थितसूर्यादिग्रहे समये मैत्र्यादियुक्तशुभग्रहसूचितभाग्यसंपदं पुत्ररत्नमजीजनद्राजकुमारी / वीरसेनश्रेष्ठिगृहे पुत्रजन्माभूदित्युदन्तं सर्वनगरप्रजासु सर्वसंबंधिजनसमुदायेऽपि समस्तप्राणिप्राणनतत्परः पवनः प्रसारयामास, तेन सत्राप्यानंदोऽप्यवर्धत श्रोत्रजनमनःसु / यस्मिन् पुत्रजन्ममांगलिकप्रसंगे रसनारसवर्द्धिनीःशर्कराः प्रसृति भृत्वा भृत्वा श्रेष्ठी जनान दापयामास भृत्यैः / जिनमंदिरेष्वष्टाहिकामहं पूजाशान्तिस्नात्रादि धनव्ययेनाकारवत् / तेन दीनदारिद्रयनिवारकं दानं चादायि भोजनादिकमपि च / अनेनोत्सवेन श्रेष्ठितत्संबंधिसर्वजना आनंदिताःसमभवन् / पुत्रस्य नामधेयममरचद्रेति व्यधात् / दिनव्यत्ययेनामरचन्द्रः काकलिकया वाचा. मातापित्रोरानन्दं वितेने। सर्वोषधीजीवनदायी निशाकर इव दिने दिने वृद्धिं पुपोष बालकः / तयोर्दपत्योईब्धिः पुत्रमुखं दृष्ट्वासुतरांववृधे / श्रेष्ठिगृहेऽमरचन्द्रस्य पदपंकजेनपवित्रिते जाते तस्य क्रयविक्रयरूपव्यवहारे महान लाभः समजायत / पणायकार्ये धनलाभेन श्रेष्ठी चिंतितवान् / प्राप्तलक्ष्भ्या अयमेव परमो लाभो यद्ध कार्ये व्ययःकर्तव्य इति मत्वा स सप्तक्षेत्र्यां धनव्ययमकरोत् / यथा प्रावृषि कृष्टे क्षेत्रे कृषीवलो महते लाभाय धान्यं वपति तथाऽयमपि तथैवाकरोत्। सुपात्रे दानं दयादानमपि धनव्ययेन धनवताजनेन विधातव्यम्।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60