Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ ब्रवीत्-स्वसः ! शृणु प्राप्तोऽयं स्वप्नो तव मनोरथपूरको भविष्यति, कुलदीपकःसुपुत्रो भावी जैनशासनसमुद्यो तकच पित्रो मजगति प्रथयिष्यति, मुनिमुखनिर्गतान् वाग्देवतावर्णान निशम्य जहर्ष राजकुमारी। गुरुवन्दनं चरि- कृत्वा स्वगृहं गतवती गृहकार्ये निममा चाभवत् // जगतीतलनिवासिनां नयनीभूतः सर्वरसपरिपाकपरिणमतम् / यिता सर्वाकाशप्रदेशविहरणेन श्रमं गत इव सर्वमनुजानां दिनभवक्लेशं शमयितुं यदा सविताऽस्तमगात्, सायंतनी संध्या च प्रवृत्ता तदा पटहझलरशंखघंटादिवादित्रपूर्वकं देवमन्दिरेषु भगवत्प्रतिमानां निराजनान्यासन् , तदा वीरसेनश्रेष्ठी स्वापणं मुद्रयित्वा स्वनिकेतनमागतवान , भोजनादिकं कृत्वापणिकं सर्व व्यव- हारं गणयित्वा सुन्दरविष्टर उपविश्य कृतलंबितपादो यदा विशश्राम तदावसराभिज्ञा राजकुमारी स्वपति गतरात्रिसमागतस्वप्नवाः कथयितुं प्रवृत्ता / स्वामिन् ! मया रात्रौ स्वप्ने करिदर्शनं कृतं / प्रातरुत्थाय स्ना| नादि कृत्वा भगवदर्शनं विधायोपाश्रयं प्राप्य भानुचन्द्रं यति नत्वा गत्रिस्वप्नो मया निवेदितस्तदा तेन यतिना पुत्रप्राप्तिफलः स्वप्नोऽस्ति, पुत्रोऽपिजैनशासनोदीपको भविष्यतीति मह्यमभिदधे / तच्छृत्वावीरसेनश्रेष्ठी जहर्ष, तस्य हृदये धर्म धर्माराधनफलेऽप्यधिकतरा श्रद्धासमुत्पेदे। समयः सद्य एवव्यत्येति अहंपूर्विकान्यायेन घनाद / / | घस्रो व्यतीताय. स्वल्पेनानेहसा राजकुमारी गर्भ दधौं, तेन तो दंपती स्वप्नं सत्यं मेनातेऽन्ततो विक्रमार्कः

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60