Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ अलंकारसर्वस्वम् / 183 एवमेकवाक्यार्थपदार्थगतत्वेन काव्यलिङ्गमुदाहियते / यथा मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क च तावकं वपुः / ‘पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः // ' 'यद्विस्मयस्तिमितमस्तमितान्यभाव मानन्दमन्दममृतप्लवनादिवाभूत् / तत्संनिधौ तदधुना हृदयं मदीय महारचुम्बितमिव व्यथमानमास्ते // ' पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य 'मनीषिताः' इति वाक्यार्थरूपो हेतुनिर्दिष्टः / उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः। . रुडध्वजस्य / श्रियोऽरागेण विभाव्यते या सौभाग्यहेनः कषपट्टिकेव // ' इत्यत्र वक्षःस्थल्या जगद्रक्षकत्वे जगत्प्रसूतित्वं पदार्थो हेतुः / प्रसवितुर्हि निजप्रसूतेः सर्वथैव रक्षणमुचितम् / अत एव गरुडध्वजवक्षःस्थल्या जगद्रक्षकत्वे कर्तत्वं युक्तम् / इयांश्चाभिधेय एवार्थः / अत एव चात्र न हेतोः कश्चिद्व्यङ्ग्याश्लेषः। इत्थम् / 'संजीवणोसहम्मिव सुअस्स रक्खइ अणण्णवावारा / सासू णवब्भदंसणकंठागअजीविअं सोण्हं // ' इत्यत्र कण्ठागतजीवितत्वस्य / अत्र च जगत्प्रसूतित्वस्य हेतोः पदार्थतयोपनिबन्धे न कश्चिदतिशयो विशेषः / एवम् / 'अयि प्रमत्ते सिचयं गृहाणेत्युक्तेऽपि सख्या न विवेद काचित् / मन्ना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्गः // ' इत्यत्रापि ज्ञेयम् / यद्यपि चात्र रसशब्दस्य जल. वाचित्वं न विवक्षितम् / तथाप्यभेदाध्यवसायादतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्ग्यम् / तथात्वे हि हेतुहेतुमद्भावस्य न कश्चिदतिशयः / एवं हि। 'एकान्तजाज्यादूरुभ्यां करभोवाः पराजिताः। कदल्यो यन्न तच्चित्रं जयः वन कलावताम् // ' इत्यंत्र जाड्यस्यातिशयोक्त्यालिङ्गितत्वेन वैचित्र्यावहत्वाच्छब्दस्यापि पदार्थस्य 1. 'एवमेव' ख. 2. 'यथा' इति क-पुस्तके नास्ति. 3. 'संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा / श्वश्रूनवाभ्रदर्शनकण्ठगतजीवितां स्नुषाम्' इति च्छाया.

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292