Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ अलंकारसर्वस्वम् / 237 'गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा . सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा / मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् // अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः / यथा वा'त्वद्वक्रामृतपानदुर्ललितया दृष्टया क विश्रम्यतां स्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः / एभिस्तत्परिरम्भनिर्भरभरैरङ्गैः कथं स्थीयतां / कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः // अत्र चिन्ताख्यो व्यभिचारिभावः / एष एव च भावालंकारः / भावस्य चात्र स्थितिरूपतया वर्णनम् / शान्त्युदयावस्थे तु वक्ष्येते / ऊर्जखी यथा'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना / एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः __संपद्येत कदा तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् // ' अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गार औत्सुक्यं च व्यभिचारिभावोऽनौचित्येन प्रवृत्तौ / समाहितं यथा 'अक्ष्णोः स्फुटासुकलुषोऽरुणिमा निलीनः शान्तं च सार्धमधरस्फुरणं भृकुट्या / दाहियत इति तात्पर्यम् / भावालंकार इति / निर्वेदादीनां भावानां स्थित्यात्मकतयोपनिबध्यमानत्वात् / शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम् / अमेन चास्य समाहितादिभ्यो वैलक्षण्यं द्योतितम् / तेन यत्र भावस्य स्थितिस्तत्रा

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292