Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ अलंकारसर्वस्वम् / 239 भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयोविरुद्धयोः स्पर्धित्वेनोपनिबन्धः, शबलता च बहूनां पूर्वपूर्वोपमर्दैनोपनिबन्धः / एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः / / एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेननिर्दिष्टत्वात् / अथ च संकरसंसृष्टिवैलक्षण्येनैते सर्वालंकाराः पृथक्केवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम् / संसृष्टिसंकरयोर्हि संपृक्ततयालंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् / तत्र भावोदयो यथा न पृथगलंकाराणि वाच्यानि' इति / तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणीयत्वं युक्तम् / भावेत्यादि / एतदेव व्याचष्टे-भावस्येत्यादि / उक्तरूपस्येति / व्यभिचारिदेवादिरतित्वेन द्विप्रकारस्येत्यर्थः / उद्गमावस्थेति। उद्गमावस्था न पुनरुदितेत्यर्थः / उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रेयोऽलंकार एव स्यात् / एते इति / भावोदयभावसंधिभावशबलतास्त्रयोऽलंकाराः / ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्त्वावगम इति किं तद्रहणेनेत्याशङ्कयाह-एतदित्यादि / अथ चेति पक्षान्तरे / सर्वालंकारा इति / पुनरुक्तवदाभासादिभावशबलान्ताः / केवलत्वेनेति / तस्यैवैकस्य वाक्यार्थत्वेन प्ररोहात् / तस्मादङ्गभूतैरलंकारान्तरैरुपस्क्रियमाणो वा य एव यत्र वाक्यातात्पर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः / अत एवात्र संसृष्टसंकरव्यपदेशः / यतस्तयोरलंकाराणां मिश्रत्वेनावस्थानं लक्षणम् / तदेवाह-संसृष्टीत्यादि / यत्तु पूर्वत्र कुत्रचिदुदाहरणेषु संकराद्यलंकारत्वमस्ति, तत्तत्र संभवमात्रेण निदर्शनीकृतम् / न तु साक्षादलंकारत्वम् / तत्तत्र तथाविधस्योदाहरणस्य खयमेव लक्ष्यादभ्यूहः कार्यः / एतदुदाहरणत्रयं ध्वन्यभाववादिमतेन ग्रन्थकृतोपात्तम् / ध्वनिवादिमतेन पुनरुदाह्रियते / तत्र भावोदयो यथा-'साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि च प्रवृत्ते / अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् // ' अत्र राजविषयाया रतेरङ्गभूतस्य त्रासस्योदयः / भावसंधिर्यथा-'असोढा 1. 'शबलत्वेनेति' क. 2. 'शान्भमात्रेण' क.

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292