Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 267
________________ अलंकारसर्वस्वम् / 243 कवाक्यतया यद्यविच्छेदेन प्रतिपत्तिप्ररोहः स्यात्तदात्रापि संसृष्ट्याद्यभ्युगमे न कश्चिद्दोषः / ननु समग्रताप्रत्यये चित्रज्ञाने वा स्थाल्यादीनां चैकेन्द्रियग्राह्यत्वेन समानजातीयानामेकबुद्ध्यधिरूढादुपपद्यत एव सामगादेरेकस्य वस्तुनोऽवगमः / इह तु भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीययोः शब्दार्थयोरेकबुद्ध्यधिरूढाभावात्तदलंकाराणां युगपत्प्रतीतिरेव नास्तीति कथमेकस्य संसर्गादेवस्तुनोऽवभासो यस्यापि संसृष्ट्याद्यलंकारान्तरव्यपदेशार्हत्वं स्यात् / अत्रोच्यते / श्रोत्रकरणत्वाच्छब्दावगमस्यैकेन्द्रियग्राह्यत्वात्तदलंकारयोः सजातीयत्वे तावदविवादः / अत एव च तयोरेकबुद्ध्यधिरोहाद्युगपत्प्रतीतेः संसर्गावगमः / सति च संचये चारुतातिशयोपसर्जन इत्यत्र संसृष्टाद्यलंकारत्वम् / एवमर्थावगमस्यापि शब्दकरणत्वात्समानजातीययोः संमृष्टत्वेन प्रतीयमानयोरलंकारयोरपि ज्ञेयम् / शब्दार्थयोः पुनरुपायभेदेऽपि तदलंकाराणां सुगन्धिबन्धूकबोधन्यायेन मानसबोधन्यायेन मानसज्ञानविषयत्वाद्युगपदवभासः सिद्ध्यतीति लौकिकालंकारवदेव शब्दार्थोभयालंकाराणां संसर्गे लब्धपरभागतयावभासत एव चारुत्वान्तरमिति न्यायप्राप्तमेव संसृष्ट्याद्यलंकारत्वम् / यत्पुनरन्यैः शब्दार्थयोर्भिन्नजातीयत्वे भिन्नेन्द्रियग्राह्यत्वं निमित्तमुक्तं तदुपेक्ष्यमेव / शब्दार्थशरीरे काव्ये शब्दप्रतिपाद्यस्यैवार्थस्याङ्गत्वात्तच्चक्षुरिन्द्रियग्राह्यस्य बाह्यस्यानौपयिकत्वात् / यद्येवं पूर्वलक्षितानामनुप्रासोपमादीनामभावः स्यात् , असंकीर्णानामलंकाराणामसंभवात्सर्वत्र संसृष्टिसंकरयोरेव भावादेषां विषयापहारात् / नैतत् / असंकीर्णानामलंकाराणां सहस्रशो दर्शनात् / तथाहि'यशोवर्माणमुल्लङ्घय हिमादिमिव जाह्नवी / सुखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् // उत्तराः कुरवोऽविक्षुस्तद्भयाजन्मपादपान् / उरगान्तकसंत्रासाद्विलानीव महोरगाः // जयार्जितधनः सोऽथ प्रविवेश खमण्डलम् / भिन्नेभमौक्तिकापूर्णपाणिः सिंह इवाचलम् // राजतान्क्वापि सौवर्णान्क्वापि देवान्विनिर्ममे / पार्वेषु मुख्यदेवानां पार्थिवो धनदोपमः // तुः खारश्चङ्कुणश्चके खनामाङ्कविहारकृत् / भूपचित्तोपमं स्तूपं जिनार्हसमयास्तथा // ईशानदेव्या तत्पन्या खाताम्बु प्रतिपादितम् / सुधारसमिव स्वच्छमारोग्यादायि रोगिणाम् // संजग्राह स देशेभ्यस्तास्तानन्तरविजनान् / विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः // अभेद्यसारे माये तु व्यक्तमेवं विधीयते। प्रयासः कुण्ठतां यातो लोहे वज्रमणाविव // निदेशेनेव संपश्य पयः सूतेऽद्य मेदिनी / रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव // 1. 'अविक्षन्' इति राजतरङ्गिण्याम्.

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292