Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 268
________________ 244 काव्यमाला। स्फुटावगमो भेदः, समवायन्यायेन वास्फुटत्वावगम इति द्वैधम् / पूर्वत्र संसृष्टिः, उत्तरत्र संकरः / अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः / तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा / शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंकारगतत्वेन च / तत्र शब्दालंकारसंसृष्टिर्यथा 'वदनसौरभलोभपरिभ्रमद्भमरसंभ्रमसंभृतशोभया / चलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया // ' इत्युक्त्वा सोऽम्बु निष्क्रष्टुं कुन्तेनोर्वीमदारयत् / उज्जिहीर्घवितस्ताम्भः शूलेनेव त्रिलोचनः // श्रुते प्रणष्टे नगरे निःशोकोऽभून्महीपतिः / खप्नान्तारिते पुत्रे प्रबुद्धोऽग्र इवेक्ष्यते // अवस्थैः सर्वदा रक्ष्यः स्वभेदः प्रभविष्णुभिः / चार्वाकाणामिवैषां हि भयं न परलोकतः // ' इत्यादि राजतरङ्गिण्यां ललितादित्यवर्णने उपमायाः शुद्धमुदाहरणजातम् / एवमत्रैवान्यराजवर्णने प्रबन्धान्तरेषु वा शुद्धाया उपमायाः कियान्विषय इति को नाम दर्शयितुमलम् / उपमैव चानेकालंकारबीजभूतेति तन्निदर्शनमेव कृतम् / एवमन्यालंकाराणामपि सहस्रशश्चात्रोदाहरणत्वं संवददपि ग्रन्थविस्तरभयान्न दर्शितम् / तस्मादेषां विषयत्वं प्रविरलविषयत्वं च न वाच्यम् / प्रविरलविषयत्वेऽप्युपमादीनां न संसृष्टिसंकरयोरेवं लक्षणीयतया प्राप्तिस्तावन्मात्रविषयखीकारायाप्येषां पृथग्लक्षयितुमुचितत्वात् / एवं च न संसृष्टिः / पूर्वहाराच्चारुत्वाभावाच्चेत्याद्युक्तमयुक्तम् / अत एव च 'तस्मात्समस्तविषये प्रतिबन्धकारे संसृष्टिसंकथने चलिते विदुरम् / प्राधान्यतः खविषयं सुविशालमाप्य सर्वोऽप्यलंकृतिगणो रसतां चिराय // ' इत्याशीर्वचनसूक्तमपि निष्प्रयोजनम् / नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिः संकरो वास्तु, किं द्वाभ्यामित्याशमाह-[अलंकारान्तरत्वेऽपि चेति / ] श्रीभोजदेवेन पुनर्भे 1. 'वलितया' क. 2. 'अविषयत्वं' ख. 3. 'एकलक्षणीयतया' क. 4. 'एषा' क. 5. पुस्तकद्वयेऽप्यत्र च्छन्दोभङ्गो दृश्यते. 6. पुस्तकद्वयेऽपि प्रतीकमेतन्न गृहीतम्.

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292