Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 266
________________ 242 काव्यमाला। वसानमिति निर्णयः / अलंकारान्तरत्वेऽपि च संयोगन्यायेन दन्यत्सातिशयमिति यावत् / उपलभ्यते / खसंवित्सिद्धतया साक्षाक्रियत इत्यर्थः / तेनेति / चारुत्वान्तरोपलम्भेन / नहि विषयभूतालंकारातिशयमन्तरेणोपलम्भातिशयो भवितुमर्हतीति भावः / ननु शब्दार्थालंकाराणां संघटनामात्रेगैव कथमलंकारान्तरत्वमुक्तम् / भिन्नकक्ष्यत्वेनैषामेकबुद्धयुपारोहासंभवाचारुत्वान्तराभावात् / तेषां हि संघटितत्वेऽपि 'अलंकारेषु चारुत्वं तद्वद्विदि विभिद्यते / यथैव साधु माधुर्यमिक्षुक्षीरगुणादिषु // ' इति नीत्या भेदत्वेनैव चारुत्वावगमाद्भिनत्वमेव न्याय्यम् / नापि लौकिकालंकारवदेतेषां संघटनाकृतं चारुत्वान्तरमुपलभ्यते / नहि मौक्तिकपद्मरागेन्द्रनीलादिवत्सचेतसः कस्यचिदनुप्रासोपमादीनां परस्परं परभागो भासते / शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीयत्वादसदेतत् / तथाहि खलु यथा पृथगवस्थितेषु स्थालीजलज्वलनरततण्डुलादिषु न समताप्रत्ययः / समुदितेषु तु भवति समग्रसंनिधानाख्यस्य धर्मस्य प्रत्यक्षमुपालम्भात्, तथैव भिन्नकक्ष्याणामलंकाराणां संघटनाबलेन पूर्वापरकीकारेणैकबुद्ध्यधिरोहादुपलभ्यत एव कश्चन संसर्गो नाम यस्य संसृष्टिसकरव्यपदेशाईत्वम् / अपि च रूपभेदेऽप्यविच्छेदादेकत्वम् / 'चित्रपत्रक' इत्यादिनीत्या चित्रास्तरणादौ यथा खरूपस्य रूपान्तराघ्यावृत्तत्वेऽपि विच्छेदानवभासोदकघटश्लिष्टाकारप्रत्ययः / चित्ररूपमप्येकमेव वस्तुरूपं भासते। तथैव भिन्नकक्ष्याणामप्यलंकाराणां संघट. मानत्वेन प्रतीतावेकतावसाय इति युक्तमेव संसृष्टाद्यलंकारान्तरत्वम् / इक्ष्वादीनां च माधुर्यस्य मेदेऽपि संमीलनायां पानकादिरसनिष्पत्तावुपलभ्यत एव कश्चिद्वैचित्र्यातिशयस्तद्वदेषामपीति युक्तमलंकारान्तरत्वम् / न चास्य चारुतातिशयस्य शपथप्रत्ययत्वं वाच्यम् / एकत्रैवैकस्य द्वयोबहूनां वालंकाराणामवगमे यथायथमतिशयोत्कर्षस्य खसंवित्साक्षिकत्वेन वेद्यमानत्वात् / संघटमानत्वेन च प्रतिपत्तिरलंकाराणामेकस्मिन्वाक्ये तत्तच्छन्दसि वा भवति / न तु कुलकादौ, विदूरतया तस्यास्तावत्याः प्ररोहासंभवात् / यदाहुः-'वाक्यार्थभेदेऽप्येकश्लोकान्तर्गतत्वेनालंकारस्यालंकारान्तरसाहित्यं प्रतिभायेव / अविदूरत्वाद्विभिन्नश्लोकगतत्वेन वाक्यभेदे व्यवहितत्वान्न भवति संसृष्टिः / ' इति / कुलकादावप्यलंकाराणां वाक्यै 1. 'संघट्टमानत्वेन च' ख. 2. 'संसृष्टाद्यलंकारत्वम्' क.

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292