Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 276
________________ 252 - काव्यमाला / .. यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते, तत्र नियतपरिग्रहः / तत्रानुकूल्यं साधकम् , प्रातिकूल्यं बाधकम् / तत्र साधकं यथा-.. ___ 'प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने / नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे // ' . अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् / तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् / उपमायास्तु न बाधकम् / सानेऽवश्यमेकतरपक्षाश्रयणम् , उत्तरकालं बाधकप्रत्ययोल्लासात् / इह च संदेहेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकारः स्यात् , तस्यैव वाक्यार्थत्वेन प्ररोहात् / वाक्यार्थीभाव एव त्वलंकाराणां खरूपप्रतिष्ठापकं प्रमाणम् / न चोभयोरपि वाक्यार्थीभावो, विप्रतिषेधात् / संदिग्धश्च वाक्यार्थो दोष इत्यविवादः / न च लक्ष्येऽपि तथाभावः, तथा ह्याद्योदाहरणे विभावनाया एव निश्चयः। विरुद्धमुखेनोत्कण्ठाकारणाभावेऽपि प्रतिपन्ने तथापि 'चेतः समुत्कण्ठते' इत्युत्कप्ठोदयस्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात् / अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्तेर्बाध इति विभावनाया एव वाक्यार्थीभावः / उत्तरोदाहरणे रूपकस्यैव निश्चयः / यतोऽत्रान्यप्रयोजनयोर्द्वयोः समासयोरेकत्र युगपत्प्राप्तेस्तुल्यबलत्वाद्विप्रतिषेधः / ततश्च 'विप्रतिषेधे परं कार्यम्' इति परत्वाद्रूपकसमासप्रवृत्तिः। एतदेव रूपकस्य साधनं प्रमाणम् / अत एवात्र यदन्यैः 'अबाधेन गतौ संभवन्त्यां बाधगतिरप्रामाणिकी' इति न्यायालक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाणसद्भावोऽस्तीत्युक्तम् / तदयुक्तम् / भवन्मते च समासां प्रायशो लक्षणपरत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्यबाधेन गतेरसंभवादुपमाया अपि नास्ति बाधकप्रमाणसद्भावः / अथोपमायां लक्षणा, रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तुल्यत्वमिति चेत् , नैतत् / एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात् / अयं हि बाधगतेरेव प्रतीयते, तत्र तत्समास एव कार्य इत्याह-यत्र त्वित्यादि / एतदेव दर्शयति-तत्रेत्यादिना / न बाधकमिति / न पुनः साधकमपीत्यर्थः / बाधकत्वाभावमात्रेण

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292