Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 279
________________ अलंकारसर्वस्वम् / 255 'सत्पूरुषयोतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये / / - उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते // .. अत्र 'पयसीव नाट्यगृहे रमन्ते' इत्येतावतैव समुचितोपमा निष्पन्ना सत्पूरुषद्योतितरङ्ग इति शब्दश्लेषेण सहकस्मिन्नेव शब्दे सङ्कीर्णा / शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतो 'राजति तटीयम्' इत्यादिना / एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् / __ अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् / तुल्यजातीययोरप्यलंकारयोरेकवाचकानुप्रवेशसंभवात् / शब्दार्थवर्त्यलंकारसंक प्राधान्येनालंकारः / एवं न संकरः, एकस्यैवात्रालंकारस्य स्थितेः / तस्य च द्विप्रमृतीनां संसृष्टतायामुक्तत्वात् / उदाहरणान्तरं यथा-'अङ्के न्यस्योत्तमाकं प्लवगबलपतेः पादमक्षस्य हर्तुः कृत्वोत्सङ्गे सलील त्वचि कनकमृगस्याङ्गमाधाय शेषम् / ब्राणं रक्षःकुलग्नं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनैवेक्षमाणस्त्वदनुजवदने दत्तकोऽयमास्ते // ' अत्रेदृगीश्वराणां खभाव इति खभावोक्तिः, दाशरथेश्च प्रत्यक्षायमाणवमिति भाविकमित्येकस्मिन्नेव वाचकेऽलंकारद्वयमनुप्रविष्टमित्ययं संकरः / अत्र च भाविकखभावोक्योरुपकार्योपकारकभावेनाङ्गाङ्गित्वेऽप्येकवाच. कानुप्रवेशकृतो वैचित्र्यातिशयः प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम् / अङ्गानिभावश्च भिन्नवाचकालंकारगतत्वेन लब्धावकाशोऽस्ति / अतो 'राजति तटीयम्' इत्यादावेकवाचकानुप्रवेशोऽपि निरवकाश इति ततोऽस्य पृथग्भावः / अत एवेति / शब्दालंकारयोरेकवाचकानुप्रवेशात् / अन्येति / अन्यैः काव्यप्रकाशकारादिभिः / यदुक्तम्-‘स्फुटमेकत्र विषयं शब्दार्थालंकृतिद्वयम् / व्यवस्थितं च' इति। अप्रयोजनकमिति / तथानुभाषणं पुनर्न कश्चिद्दोष इति भावः। मुरारिनिर्गतेत्यादौ ह्यर्थालंकारत्वात्सजातीययोरुपमाश्लेषयोः पूर्वोक्तनीत्या भिवविषयत्वेनास्यैकवाचकानुप्रवेशोऽस्तीत्यर्थः / एवं शब्दाश्रयत्वादर्थाश्रयत्वाच सुल्यजातीयानामलंकाराणामङ्गाङ्गिभावादिना संकर उक्तः / शब्दार्थवर्तिनामलंकाराणां पुनः संसर्गेणायमलंकार इत्याह-शब्दार्थेत्यादि / न केवलं काव्य

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292