Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 275
________________ अलंकारसर्वस्वम् / 251 अत्र विभावनाविशेषोक्त्योः संदेहसंकरः / तथायुत्कण्ठाकारणाभावे उत्कण्ठाया उत्पत्तौ विभावना / स च कारणाभावो 'यः कौमारहरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः / तथा च 'यः कौमारहरः' इत्याद्यनुत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः / सा चानुत्पत्तिः 'समुत्कण्ठते' इति विरोधोत्पत्तिमुखे. नोक्ता / अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम् / न चानयोः प्रत्येक साधकबाधकप्रमाणयोग इति संदेहसंकरोऽयम् / यथा वा 'यद्वक्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति / उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य // ' अत्र वकं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति रूपकमिति संशयः / उभयथापि समासस्य भावात् / 'उपमितं व्याघ्रादिभिः' इत्युपमासमासः, व्याघ्रादीनामाकृतिगणत्वात् / मयूरव्यंसकादित्वाद् रूपकसमासः, मयूरव्यंसकादीनामाकृतिगणत्वात् / न चात्र क्वचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः साधकबाधकप्रमाणाभावादेकस्यानिश्चयात् / संदेहमेवोपपादयति-तथाहीत्यादिना / उत्कण्ठाकारणाभाव इति / कौमारहरवराद्यसंनिधानरूपस्य कारणस्याभाव इत्यर्थः / विरुद्धमुखेनेति / तत्संनिधानद्वारेणेत्यर्थः / अत एवेति। द्वयोरपि विरुद्धमुखेनोपनिबन्धात् / अन्यत्रेति / काव्यप्रकाशादौ / उमयथेति / उपमारूपकत्वेनेत्यर्थः / चन्द्रशब्दस्याकृतिगणत्वाद्गणद्वयेनापि हि खीकृतत्वमिति भावः / क्वचिदिति / उपमायां रूपके वा / न चैतदलंकारसारकारादीनां मतम् , अलंकाराणां संदेहायोगात् / तथाहि स्थाणुर्वा पुरुषो वेति संदेहः कस्यचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदैवानन्तरं त्वन्येषामपि निश्चयोत्पादनात् / सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनम् / तथात्वे च संदेहोऽयुक्तः, तस्य नियतदेशकालप्रमातृगतत्वात् / संदेहोऽपि पर्यव

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292