Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 273
________________ अलंकारसर्वस्वम् / 249 . अत्र प्रथमाधैं विरोधोत्पत्तिहेतुः श्लेषः / दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकारौ / तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्प्रेक्षा / अतश्चाङ्गाङ्गिभावः। तथाह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः / यच्चान कार्यमुत्प्रेक्षानिमित्तं तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ / तेनात्राङ्गाङ्गिभावः संकरः / न च विरोधोत्पत्तिहेतौ श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावः संकरः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायं संकरः, ताभ्यां विना तयोरनुत्थानात् / अतश्च निरवकाशत्वाबाधकत्वम् / न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यत इति श्लेषस्य सावकाशत्वमिति / यतो न ब्रूमो विरोधमन्तरेणापि श्लेषो न भवतीति / किं तबलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वा रम् / श्लेप इति / औद्भटानामिति शेषः / द्वावलंकाराविति / हेतुहेतुमद्रूपावित्यर्थः / श्लेषमन्तरेण विरोधस्यानुत्थानात् / तदनुगृहीतेति / श्लेषमूलविरोधोपकृतेत्यर्थः / अङ्गाङ्गिभावमेव विभजति–तथा हीत्यादिना / कार्यमिति / पतितत्वाग्निप्रवेशलक्षणम् / एतच्चोत्प्रेक्षानुगुण्येन प्रसङ्गादिहोक्तम् / तेनेति / उत्प्रेक्षाविरोधोपकृतत्वेन / ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्गिभावेन संकरस्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्लेषयोश्च किं संकर उत नेत्याशङ्कयाहन चेत्यादि / एतचोद्भटमतानुसारश्लेषस्य प्राधान्याभिप्रायेणोक्तम् / खपक्षाभिप्रायेण तु विरोधस्याप्येतदेव द्रष्टव्यम् / अत्र च यथा न संकरालंकारस्तथा पूर्वमेवोपपादितम् / अत्र ह्युभयथाप्येक एवालंकारः / न चैकस्य संकरो युक्तः / तस्य द्विप्रभृतीनामलंकाराणां मिश्रत्वे संभवात् / अतश्चेति / विरोधगुणीभावेन श्लेषस्यैव समुत्थानात् / यत्तु ग्रन्थकृता खमताश्रयेणैतदपि नोक्तम् , तत्रायमाशयः। यावता हि यत्रालंकारान्तरखरूपनिष्पादने हेतुत्वं भजते तत्र नायमलंकार इति प्रतिपाद्यम् / तचैवमपि सिद्ध्यतीति तन्मतेनाप्येतत्साधनं चिरंतनाभ्युपगतत्वा

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292