Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
________________ 246 . काव्यमाला / रमुपकार्योपकारकत्वमात्रं येनाङ्गाङ्गिभावः। न ह्यत्रोपमयोः परस्परं स्वरूपनिष्पत्तावुपेक्षा काचित् / एकतराभावेऽप्येकस्याः खरूपोत्थानात् / एवमुपमाद्वयपरिहारेण केवलाप्युत्प्रेक्षा स्यात् / स्थितानां पुनरेषामियं चिन्ता यच्चुम्बने केशग्रहणादेरुचितत्वादुपमाद्युपकारकमुत्प्रेक्षा चोपकार्या येनाङ्गाङ्गिभावः / एवं च तेन प्रधानतायामुपमादीनां निजं निजं नाम / अङ्गत्वे पुनरेषां संकरादीनामङ्गाङ्गिभावेऽपीत्याद्यन्यैरयुक्तमेवोक्तम् / इह पुनर्यमकानुप्रासयोनिमित्तनिमित्तिभावः / सर्वत्रैवानयोः खरूपनिष्पत्तावन्योन्यानपेक्षत्वात् / तत्त्वेऽपि समनन्तरोक्तयुक्त्या संकरायोगात् / नच खहेतुभ्यो लब्धसत्ताकयोरप्यनयोः परस्परमङ्गाङ्गिभावः / शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वभावात् / अथ वर्णसावयेन वैचित्र्यातिशयाधायकत्वेनानयोरुपकार्योपकारकभाव इति चेत् / न / इयमेव हि संसृष्टियोबहूनां वालंकाराणां परस्परनिरपेक्षाणामपि संसर्गे सति चारुतातिशयप्रतिपत्तिः / एवमर्थालंकारसंसृष्टावपि संकरोदाहरणत्वं न वाच्यम् / न हि तत्रोपमोत्प्रेक्षयोः परस्परमुपकार्योपकारकभावाद्यात्माङ्गाङ्गिभावः / यद्येवं दशदाडिमादिवाक्यवचनयोरसंबद्धत्वं स्यादिति चेत्, न / चक्षुरुन्मीलनात्मके एकस्मिन्नेव प्रधानेऽर्थे द्वयोरपि समृद्धत्वात् / न च पाकलक्षणमेकमेवार्थमुररीकृत्य व्यवस्थितानां स्थाल्यादीनामप्यन्यः कश्चित्संबन्धः / अथोपमालिङ्गितस्य चक्षुरुन्मीलनस्योप्रेक्षाश्लिष्टः शशाङ्काम्बरत्यागः पारम्पर्येण हेतुत्वेनोपनिबद्ध इति खाश्रयभूतार्थवदनयोरप्यङ्गाङ्गिभावोऽस्तीति चेत् / नैतत् / उपमाद्यालिङ्गनाभावेऽपि चक्षुरुन्मीलनादेर्हेतुहेतुमद्भावानतिपातादवस्थितत्वे वा तयोरुक्तयुक्त्या परस्परं संबन्धाभावात् / नाप्यत्रोपमाया वाक्यार्थत्वम् / तस्या अप्युत्प्रेक्षादिवच्चक्षुरुन्मीलनाङ्गत्वेनावस्थानात् / अत्र हि चक्षुरुन्मीलनस्यैव वाक्यार्थत्वम् / शशाङ्काम्बरत्यागोपपादितस्य क्षपागलनस्य तं प्रत्येव हेतुत्वेनोपनिबन्धात् / एवं परं प्रत्युपसर्जनीभूतयोरवान्तरसंबन्धाभावेऽप्युपमोत्प्रेक्षयोः संसर्गे सति चारुत्वातिशयोपसर्जन इति यथोक्तमेव संसृष्ट्युदाहरणत्वं युक्तम् / एवम् ‘अन्योन्यसंबन्धविवर्जितानामलंकृतीनां विनिवेशनं चेत् / अनन्वितत्वाद्दशदाडिमादिवाक्यादिवदूषणमेव तर्हि // अथान्वयोऽस्त्येव परस्परं तद्गुणप्रधानत्वमवश्यमेष्यम् / तदा न संसृष्टिकथा गुणस्य पराङ्गतायां खलु संकरः स्यात् // एकत्र चेदङ्गिनि संगतं स्याद्वयं तदन्योन्यसमीलनेन / न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियोगात् // ' इत्याद्युपेक्षणीयमेव / न चात्रायमालंकार इत्यार्थोऽलंकारसमुच्चय इति वाच्यम् / धर्म
Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292