Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 269
________________ अलंकारसर्वस्वम् / 245 अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः / अत्रैव 'अलकलोलकलोल' इति, तथा 'कलोलकलोल' इति सजातीययोर्यमकयोः संसृष्टिः / अर्थालंकारसंसृष्टिर्यथा 'देवि क्षपा गलति चक्षुरमन्दतार मुन्मीलयाशु नलिनीव सभृङ्गमन्जम् / एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः // ' अत्र विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः / 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः / असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता।' दस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसृष्टिरिति संकीर्णमात्राभिप्रायेण संसृष्ट्याख्य एक एवालंकार उक्तः / विजातीययोरिति / यमकानुप्रासयोर्मि'नलक्षणत्वात् / अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्गं यमकमिति संकरोदाहरणं न वाच्यम् / अत्र हि यमकसर्गस्योपक्रान्तत्वात्तत्रैव कवितुः संरम्भातिशयाद्यमकस्य प्राधान्यमित्यनुप्रासस्य यमकं प्रति वरमङ्गत्वं युक्तं, न पुनर्विपर्ययः / सकलवाक्यव्यापिनोऽप्यनुप्रासस्य प्राधान्येनाविवक्षणात् / नाप्यत्र परस्परमङ्गाङ्गिभावो युक्तः / इह हि निमित्तानिमित्तभावेनोपकार्योपकारकभावेन चेति द्विधाङ्गाङ्गिभावः / तत्राद्यो द्विधा / सार्वत्रिकः, प्रादेशिकश्चेति / तत्र' सार्वत्रिको यथा विभावनातिशयोक्त्योः। आश्लिष्टातिशयोक्तिस्तु सर्वत्रैव विभावना' इति दृशा विभावनायाः सर्वत्रैवातिशयोक्त्यपेक्षात् / प्रादेशिको यथा श्लेषातिशयोक्त्योः / 'रजनीमुखम्' इत्यादौ क्वचिदिव श्लेषवशेनातिशयोक्तेरुत्थानात् / 'कमलमनम्भसि' इत्यादौ श्लेषमन्तरेण तस्याः संभवात् / एतद्भेदद्वयं च न संकरस्य विषयः। तस्य खहेतुबलाल्लब्धसत्ताकानामलंकाराणां संसर्गे वक्ष्यमाणत्वात् / द्वितीयो यथा"अङ्गुलीभिरिव' इत्यादौ / अत्र हि खहेतुबलेन लब्धसत्ताकानामुपमादीनां परस्प. 1. 'अपेक्षत्वात्' ख. 2. श्लेषमन्तरेणापि' ख. -

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292