Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 252
________________ 228 काव्यमाला। सूक्ष्मधर्मवर्णनं स्यात्तत्र खभावोक्तिः, अन्यत्र तु रसवदलंकार एव / : माप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसर्पणात्प्रसादाख्यो गुणः / तस्य हि स्फुटास्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम् / अस्य तुझटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ खरूपप्रतिलम्भः। तस्मादयं सर्वोत्तीर्ण एवालंकारः / लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते / यथा मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः / येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ // " यथा वा-हर्षचरितप्रारम्भे ब्रह्मसदसि वेदखरूपवर्णने / तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दृश्यते / एवं तत्रैव मुनिक्रोधवर्णने, रीमवालोचना खप्ने मोदितचारुचाटुकरणैश्चेतोऽर्पयन्ती मुहुः। कूजन्ती विततैकपक्षतिपुटेनालिङ्गय लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते // ' अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन खभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः। अन्यत्रेति / यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात् / अनेन चभाविकरसवदलंकाराभ्यामस्या भेदो भाविकप्रसङ्गे निर्णेष्यते इति यत्प्रागुक्तं तन्निवाहितम् / इदानीं च प्रकृतमेवाह-नाप्ययमित्यादि। झगित्यर्थसमर्पणं प्रसादः, झगिति समर्पितस्यार्थस्य स्फुटत्वेन प्रतीति विकमित्यनयोर्महान्भेदः / एतदेवोपसंहरति तस्मादित्यादि / एतच्च नास्माभिरस्थान एवाभिनिविष्टमित्याहलक्ष्य इत्यादि / तत्रैवेति / हर्षचरिते / तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम् / पुलिन्दवर्णनं पुनरष्टमोच्छ्वासारम्भे स्थितमिति तत एव स्वयमवधार्यम्। इंह तु अन्यविस्तरभयान लिखितम् / अतीतानागतयोः सूत्रितेऽपि प्रत्यक्षायमा. णस्वे देशादिविप्रकृष्टानां प्रत्यक्षायमाणत्वमुदाहरता ग्रन्थकृतातीतानागतत्वस्य विप्रकर्षमात्रसारत्वं सूचितम् / तच्च देशकालखभावविप्रकृष्टानामविशिष्टमित्येतदुदाहृतम् / तत्रागस्त्यमुनेर्देशविप्रकृष्टत्वम् / अनागतस्य तु यथा-'क्षिप्तोरिक्षप्ताखिलखुरपुटाहन्यमामादिरौद्रध्वानत्रस्यत्सुरवरनमस्कारवाग्दत्तकर्णः / पाणिस्पर्शाद्वहनतुरगं प्रेरयन्म्लेच्छजातिं जेष्यत्येष त्रिभुवनविभुः कर्किरूपेण विष्णुः // ' एवं 1. 'यत्र' क. 2. ध्वानभ्राम्यत्' क.

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292