Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ 232 : काव्यमाला। रसभावतदाभासतप्रशमानां निबन्धनेन रसवत्प्रेयऊर्जस्विसमाहितानि। उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषखभावत्याच रसादीनामिह तद्वदलंकाराणां प्रस्तावः / अत एव चत्वारोऽलंकारा युगपल्लक्षिताः / तेत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषो रसः / भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः / देवादिविषयश्च रत्यादि वः / तदाभासो रसाभासो भावाभासश्च / आभासत्वमविषयप्रवृत्त्यानौचित्यम् / तत्पशम उक्तप्रकाराणां निवर्तमानत्वेन प्रशाम्यदवस्था / नायमलंकारः // रसभावेति / अत एवेति / चतुर्णामपि चित्तवृत्तिविशेषखभावात् / तत्रेति / युगपल्लक्षणे स्थिते सतीत्यर्थः / विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि / अनुभावाः कटाक्षभुजक्षेपादयः कार्याः / व्यभिचारिणो निर्वेदादयः सहकारिणः / प्रकाशित इति / व्यञ्जितः / यदुक्तम्'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति / रत्यादीत्यादिशब्देन हासादीनां स्थायिनां ग्रहणम् / निर्वेदादिरिति / यदुक्तम्-'निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः / आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः // व्रीडा चपलता हर्ष आवेगो जड़ता तथा / गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च // सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता / मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च // त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः / त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः // ' इति / देवतादिविषयाणामानन्यादनेकप्रकारत्वेऽप्येकप्रकार एव रत्यात्मभावः / अत एव रत्यादिरित्यादिशब्दः प्रकारे। चः समुचये / यदुक्तम्-‘रतिर्देवादिविषया व्यभिचारी तथाञ्चितः / भावः प्रोक्तः' इति / तथा 'तदाभासा अनौचित्यप्रवर्तिताः' इति / प्रशाम्यदवस्थेति / न तु घसरूपा प्रशान्तावस्थेत्यर्थः / तथात्वे हि सर्वत्रैव कस्यचित्प्रकृतत्वे सर्वेषामन्येषां प्रशान्तत्वादेवंभावः स्यात् / ननूक्तप्रकारत्वेन परांमृष्टस्य रसस्यापि 1. 'निबन्धने' ख. 2. 'अत्र' क. 3. 'देवतादिविषयश्च' क.

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292