Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ 224 काव्यमाला। अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भुतत्वाधस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम् / ककिगतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना का पुनः पुनश्चेतसि निवेशनं सोऽत्रास्तीति / न चेयं भ्रान्तिः / भूतमाविनो भूतभावितयैव प्रकाशनात् / नापि रामोऽभूदितिवद्वस्तुमात्रम् / भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात् / नापीयमतिशयोक्तिः / अन्यस्यान्यतयाध्यवसायाभावात् / नहि भूतभाव्यभूतभावित्वेनाध्यवसीयले, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन / न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः। प्रतिपत्त्यपेक्षयैव वस्तुनि तथा अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानाहत्वमुक्तम् / व्यस्तेति / यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयं, तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेविघ्नमात्रफलम् / इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्येनैतदुक्तम् / एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् / इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम् / अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम् / इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणशकॅरावत्सहृदयानामवज्ञास्पदतया नावधानाहाः / केचिच्च सुभगा अपि दुर्भग शब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम् / यदाहुः–'प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः / अत्सद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् // ' इति / वाशब्दः पक्षान्तरद्योतकः / ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धाद्धान्तिमानेवायं किं न भवतीत्याशझ्याह-न चेयमित्यादि / ननु यदि भूतभावितयैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याशयाह-नापीति / अधिकस्येति / वस्तुवृत्ते तस्यासंभवात् / अत एवास्य ततो व्यतिरेकः / नन्वस्यान्यतयावसायात्किं नायमतिशयोक्तिरित्याशझ्याह-नापीयमित्यादि / भूतभाविनो भूतभावितयैवास्फुटतयावगमात् / नन्वत्राप्रत्यक्षमेवे प्रत्यक्षेण किं नाध्यवसितमित्याशङ्याह-नहीत्यादि / तच्चाप्रस्तुतत्वा 1. 'किं नेत्याह' ख. 2. 'एवाप्रत्यक्षेण' ख.

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292