Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 216
________________ 192 काव्यमाला। 'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत / हिरण्याक्षवधाह्येषु यशः साकं जयश्रिया // अत्रोरोयशसोस्तुल्यगुणत्वम् / अधिकपरिवृत्तिर्यथा'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्। वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते॥' ___ अत्रोत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः / न्यूनपरिवृत्तिर्यथा 'तस्य च प्रवयसो जटायुषः खर्गिणः किमिव शोच्यते बुधैः। येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः // ' .. अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः / पौर्वापर्येण ऋमिकत्वात् / तुल्यगुणत्वमिति / वैपुल्यादिना साधारणधर्मस्यानुगामितया पुनरत्र तुल्यगुणत्वं यथा-'सुधावदातं पाण्डुत्वं विनिधाय कपोलयोः। मीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः // ' सुधावदातमित्यस्यानुगामित्वम् / बिम्बप्रतिबिम्बभावो यथा-'लतानामेतासामुदितकुसुमानां मरुदसौ मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् / लतास्त्वध्वन्यानामहह दृशमादाय रभसाद्ददत्याधिव्याधिभ्रमरुदितमोहव्यतिकरम् // ' अत्र लतासमत्वयोर्बिम्बप्रतिबिम्बभावः। शुद्धसामान्यरूपत्वं यथा-'मनोहरं खं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि। मध्वाददानो मधुपायिलोकः पद्माकराणामनृणीबभूव // ' अत्र मनोहरत्वचित्तहारित्वयोः शुद्धसामान्यरूपत्वम् / आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्याल्लभ्यते / वल्कलस्य पुनर्वार्धकशोभीत्यनेन खयमेव न्यूनत्वमुक्तम् / एवं कलेवरयशसोरपि जर्जरोज्ज्वलत्वेन न्यूनाधिकत्वमुक्तम् / एतच्चास्य प्राच्यैरप्युक्तमिति रुद्रटोदाह 1. 'अतश्चास्याः ' ख.

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292