Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 236
________________ - काव्यमाला। 'ये कन्दरासु निवसन्ति सदा हिमाद्रे स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते / अप्यङ्गमुत्पुलकमद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः // ' अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुको कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ / तिरोधायकत्वादेव च मीलितव्यपदेशः।। प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् / , यत्र प्रस्तुतस्य वस्तुनो प्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदा. विशेषावक्ष्यमाणोदाहरणादावभिसारिकादिवज्योत्स्नादेरपि भेदानुफ्लक्षणं किं न स्यात् / ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशेपाग्रहणाचेति एवमपि कथमिति चेत् , कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य का / एतचाप्रस्तुतत्वान्नेहास्माभिरुक्तम् / इह च प्रस्तुतस्यैवाप्रस्तुताद्भेदेनानुपलक्षणं विवक्षितम् / तद्रतत्वेनैवाभेदद्वारेण तत्सादृश्यस्य प्रतिपादयिषितत्वात् / न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्तभोवो वाच्यः / तस्य हि प्रकृतवस्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम् / इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रतिपत्तिरिललं बहुना / न चास्य संज्ञामात्रमेतदित्याह-तिरोधायकत्वादिति / अतश्च पूर्व तकन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम् // प्रस्तुतस्येत्यादि / प्रस्तुतस्येत्युपमेयस्य / अप्रस्तुतेनेत्युपमानेन / साधारणगुणानां च त्रिरूपत्वमत्रार्थसिद्धम् / तेन साधारणगुणस्यानुगामितया यथा—'मध्ये जानपदस्त्रैणमुखानाममलत्विषाम् / रोहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् // ' अत्रामलकान्तित्वमनुगामितया सकृन्निर्दिष्टम् / असकृन्निर्देशस्तु यथा-अभेदमित्यादौ / अत्र स्तबकस्तनयोर्बिम्बप्रतिबिम्बभावः / लैलितत्वनर्तितत्वयोः शुद्धसामान्यरूपत्वम् / ननु च प्रस्तुतस्याप्रस्तुतेनापह्नवः क्रियत इति किमयमपलतिरेव न भवतीत्याशङ्याह१. 'साधारणधर्माणो' ख. 2. 'राहोरालक्ष्यतां' ख. 3. 'तुलितत्व' ख.

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292