Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ 220 काव्यमाला। चिदन्यथाभिप्रायेणोक्तं सदपरेण वा काकुप्रयोगेण. श्लेषप्रयोगेण वान्यथान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः / काकुप्रयोगेण यथा__'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् / अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ // ' ___ अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् / तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम्। काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः। तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः। तत्राभङ्गश्लेषमुखेन यथा तयेत्यर्थः / काकुः ध्वनिविशेषः / यदुक्तम्-'वाक्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते / भिन्नकण्ठध्वनिधीरैः स काकुरिति कथ्यते // ' अन्यार्थघटनयेति / प्रक्रान्तादन्यस्य व्यतिरिक्तस्यार्थस्य घटनयोल्लेखनेनेत्यर्थः / येनकेनचिद्वक्राभिप्रेतार्थस्य प्रतिपादयिषयोक्तस्य वाक्यस्यान्येन विघाताय प्रहेलिकामात्रार्थ 'नवकम्बलकोऽयं माणवकः' इत्यादिनावाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः / अत एव द्वितीयो व्याघातो नास्था भेदतया वाच्यः / न हि तत्र वचनविघातायैवान्यथा योजनम् / तत्र हि 'बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवडुजपञ्जरं रक्षास्थानम्' इत्यादौ बालत्वादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं श्रीहर्षेण पुनरन्यथा प्रस्थाननिमित्ततया योजितम् / अतश्थानान्यथा योजनस्य प्रस्तुतवस्तुव्याहतिनिबन्धनत्वेऽपि प्रस्थानविधौ तात्पर्यम् / न तद्विघातमात्रेणास्य वक्रोकावन्तर्भाव इति चेत् , तर्हि साधाविशेषादुपमेयोपमादीनामप्युपमायामन्तर्भावः किं न स्यात् / अथात्र फलमेदोऽस्तीति कथमेतदिति चेत्, एवमिहापि फलमेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात् / तथा 1. 'अन्याभिप्रायेण' ख. 2. 'अत्र' ख. 3. 'श्रीकण्ठेन' ख.

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292