Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ 214 काव्यमाला। यथा'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रनैः पुनर्यत्र रुचं रुचा खामानिन्यिरे वंशकरीरनीलैः // ' अत्र रविरथाश्वानामरुणवर्णखीकारः / तस्यापि गारुत्मतमणिप्रभाखीकार इति तद्गुणत्वम् / सति हेतौ तद्गुणाननुहारोऽतद्गुणः। तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते / इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्मखीकारः प्रत्यासत्या न्याय्यः / यदा पुनरुत्कृष्टगुगपदार्थसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति सोऽतद्गुणः / तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति / यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः / तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा / क्रमेण यथा त्यर्थः / तस्येति / अरुणवर्णस्य / अपिः समुच्चये / यथा वा-'इन्दूदयश्चन्दनमिन्दुवक्रा चैत्रस्तवेत्यादिसहायसंपत् / वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्नियोगात् // ' अत्र हरवह्निगुणस्य संतापकत्वस्य स्वीकारः // सतीत्यादि / तद्विपर्ययेति / अत्र हि प्रत्यासत्त्यान्यगुणग्रहणमुक्तम् / इह तु योग्यतायामपि न तद्ब्रहणम् / प्रत्यासत्त्येति / विप्रकृष्टस्य ह्यन्यगुणस्वीकारानुपपत्तिः। यदा त्वेतन्न भवति तदायमलंकार इत्याह-यदेत्यादि / उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचितम् / एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तद. भावोऽयमलंकारः / यदुक्तम्-'तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः' इति / अस्मिन्निति / न्यूनगुणे / यद्वेति पक्षान्तरे / अप्रकृतस्येति / अननुदाहरणीयगुणस्यान्यस्य / तदेवं व्याख्यानद्वयेनास्य प्रकारद्वयं दर्शितम् / अननुदाहरणाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्कृष्टगुणत्वं हृदयस्य दर्शितम् /

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292