Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 225
________________ अलंकारसर्वस्वम् / . 201 'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च / प्रखलमुखानि नराधिप मलिनानि च तानि जातानि // ' 'अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे / नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः // ' एतद्विभिन्नविषयत्वेनोदाहरणद्वयम् / एकाधिकरणत्वेनाप्ययमलंकारो दृश्यते / यथा'बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् / शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेडत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति // ' एवं गुणसमुच्चयेऽप्युदाहार्यम् / केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समंस्तत्वेनापि भवतीति वर्णयन्ति / उदाहरन्ति च'भ्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् / .. उद्भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं . चक्षुः सानु च वर्तते रसवशादेकैकमन्यक्रियम् // ' णयोरुपनमनभवनयोश्च क्रिययोर्योगपद्येनावस्थानम् / विभिन्न विषयत्वेनेति / गुणादीनां बलमुखादिविषयगतत्वात् / अतश्च भिन्नाधिकरणोऽयं समुच्चयः / एकेत्यादि / यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिवकालान्तरभावित्वान्न यौगपद्येनावस्थानम् / तथापि तन्नरन्तर्येण ज्ञेयम् / एवमिति / यथैवात्रैकविषयत्वेन शयनाद्याः क्रिया इत्यर्थः / तत्तु यथा-'सितं ज्योत्स्नाजालैररुणरुचि संध्याकरभरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च / नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रित

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292