Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 211
________________ 187 अलंकारसर्वस्वम् / उक्तलक्षणाश्रयणे तु यत्त्वन्नेत्रेत्यादिविविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासदर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयं गमनिकायितव्या। एवं तकन्यायमूलमलंकारद्वयमिह प्रतिपादितम् / अधुना वाक्यन्यायमूला अलंकारा उच्यन्ते उद्दिष्टानामर्थानां क्रमेणानद्देशो यथासंख्यम् / ऊर्ध्वं निर्दिष्टा उद्दिष्टाः। पश्चान्निर्देशोऽनूद्देशः। स चार्थादर्थान्तरगतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते / ऊर्ध्वं निर्दिष्टानामर्थानां पश्चान्निर्दिटैरथैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः। अन्ये विममलंकारं क्रमसंज्ञयाभिदधिरे / तच्च यथासंख्यं शाब्दमार्थं च द्विधा / शाब्दं यत्रासमस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः / तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् / आर्थं तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपालोचनया त्ववयवगतः क्रमसंबन्धः प्रतीयते / तथात्र यथासंख्यार्थत्वम् / हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते // ' इति / यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं खमतं संगच्छते इत्याशझ्याह-उक्तेत्यादि / विविक्तविषय इति / ताटस्थ्यव्यतिरेकेण वाक्यार्थस्य हेतुत्वायोपन्यासादर्थान्तरन्यासस्यात्राव्यापृतेः / आश्रयितव्येति / न पुनर्वस्तुतः संभवतीत्यर्थः। एतदुपसंहरन्नन्यदवतारयतिएवमित्यादिना। उद्दिष्टानामित्यादि। अर्थादिति / उद्दिष्टानामेव ह्यनुनिदेशे पौनरुक्त्यं स्यात्। सामर्थ्यादिति। वाक्यपर्यालोचनबलात्। अन्य इति / वामनादयः / यदाहुः–'उपमेयोपमानां क्रमसंबन्धतः क्रमः' इति / अनेनास्य प्राच्योक्तत्वं दर्शितम् / अव्यवहितत्वेनेति / समासाद्यभावात् / अवयवानामिति / हरिकज्जलादीनाम् / न चास्यालंकारत्वं युक्तम् / दोषाभावमात्ररूप१. येण' क. 2. 'यथासंख्यम्' ख. 3. 'अत्राप्रवृत्तेः' ख.

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292