Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 28
________________ आलम्बनपरीक्षा यदाभासा न तस्मात्सा योऽर्थः स्वावभासिविज्ञप्तिमुत्पादयति सह्यालम्बनं युज्यते । यतः स एव ह्युत्पत्तिप्रत्यय उच्यते । संघातस्तु नैवम् । द्रव्याभावाद् द्विचन्द्रवत् । इन्द्रियवैकल्यात् द्विचन्द्रदर्शनस्य तदाभत्वेऽपि न तस्य विषयोऽस्ति । तद्वत् संघातः द्रव्यतोऽसत्त्वेन अकारणत्वात् नालम्बनम् । एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः ॥ २ ॥ अणुः कलापश्चेति बाह्योऽर्थः नालम्बनम् , एकाङ्गवैकल्यात् ॥ तत्र साधनं सञ्चिताकारमिच्छन्ति किल केचन' । सर्वोऽर्थो बह्वाकारः अतः तत्र केनचिदाकारेण प्रत्यक्ष इष्यते । परमाणुष्वप्यस्ति सञ्चिताभज्ञानोत्पत्तिकारणभावः । अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत् ॥ ३ ॥ * Representative of this view in later periods seems to be Bhadanta Subhagupta ; cf. Tattvas. pan. p. 551 : समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तात् नैकैकपरमाणुप्रतिभास इति । यथोक्तं भदन्तशुभगुप्तेनप्रत्येकपरमाणूनां स्वातन्त्र्येणास्ति संभवः (Read असंभव) । अतोऽपि परमाणूनामेकैकाप्रतिभासनम । =rnam. pa. du. ma. can. yin. pas. So reads S. Yamaguchi's edition. But the Xylograph reads simply ‘yin pas '. ___ Cf. the opinion of Sumati, a Digambara, cited in the Tattvas. pan. p. 554 : सामान्यविशेषात्मत्वात् सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरुपाः परमाणवः । तत्र समानं यद्रूपं तदिन्द्रियैर्गृह्यते नासमानम् । ततश्चैकाकारं विज्ञानमणुष्वविरुद्धमिति प्रत्यक्षसिद्धा: परमाणवः।Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142