Book Title: Alamban Pariksha
Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri
Publisher: Adyar Library

Previous | Next

Page 131
________________ APPENDIX 107 अथ संघाता अप्यन्योन्यं न संयुज्यन्ते । न तर्हि परमाणूनां निरवयवत्वात्संयोगो न सिध्यतीति वक्तव्यम् । सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् । तस्मात् परमाणुरेकं द्रव्यं न सिध्यति । यदि परमाणोः संयोग इष्यते यदि वा नेष्यते । दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते । ___ अन्यो हि परमाणोः पूर्वदिग्भागो यावदधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य, परमाणोरेकत्वं योक्ष्यते । छायावृती कथं वा यद्येकैकस्य परमाणोदिग्भागभेदो न स्याद् आदित्योदये कथमन्यत्र छाया भवति अन्यत्रातपः । न हि तस्यान्यः प्रदेशोऽस्ति यत्रातपो न स्यात् । आवरणञ्च कथं भवति परमाणोः परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते । न हि कश्चिदपि परमाणोः परभागोऽस्ति यत्रागमनादन्येनान्यस्य प्रतिघातः स्यात् । असति च प्रतिघाते सर्वेषां समानदेशत्वात्सर्वः संघातः परमाणुमात्रः स्यादित्युक्तम् । किमेवं नेष्यते पिण्डस्य ते छायावृती न परमाणोरिति । किं खलु परमाणुभ्योऽन्यः पिण्ड इष्यते यस्य ते स्याताम् । नेत्याह । अन्यो न पिण्डश्चेन्न तस्य ते ॥ १४ ॥ ___ यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्य इति सिद्धं भवति । संनिवेशपरिकल्प एषः । परमाणुः सघात इति वा किमनया चिन्तया, लक्षणन्तु रूपादि यदि न प्रतिषिध्यते । किं पुनस्तेषां लक्षणं चक्षुरादिविषयत्वं नीलादित्वञ्च । तदेवेदं संप्रधार्यते । यत्तच्चक्षुरादीनां विषयो

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142