________________
APPENDIX
111
सन्ति । अर्वाङ्मध्यपरभागसद्भावात् । तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादिदिग्भेदो यः स परमाणो न स्यात् । ततश्च विज्ञानवत् परमाणोरप्यमूर्तत्वमदेशस्थत्वञ्च प्रसज्यते । एवं बाह्यार्थाभावाद् विज्ञानमेवार्थाकारमुत्पद्यते । स्वप्नविज्ञानवद् इत्यभ्युपेयम् । वेदनादयोऽपि नातीता ना[ना]गतास्तदाकारविज्ञानजनकाः । निरुद्धाजातत्वात् । न च वर्तमाना वर्तमानजनकाः । उत्पद्यमानावस्थायामसत्त्वाद् उत्पन्नावस्थायां विज्ञानस्यापि तदाकारेणोत्पन्नत्वान् न किञ्चित् कर्तव्यमस्तीति मनोविज्ञानमप्यनालम्बनमेवोत्पद्यते ।।
YOGĀCĀRAS' CLASSIFICATION OF
PHENOMENA (DHARMAS)
महायानशतधर्मविद्यामुखम्
बोधिसत्त्ववसुबन्धुकृतम्
•
Mahayanasatadharmacidyamaikham
[The following is the Sanskrit translation of a trea. tise above named from the Chinese version of Hiuan
__ * Nanjio No. 1213. Shanghai ed. Vol. marked lai, part 10, fol. 11a.
15