Book Title: Alamban Pariksha
Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri
Publisher: Adyar Library

Previous | Next

Page 132
________________ 108 ĀLAMBANAPARIKŞA नीलपीतादिकमिष्यते । किं तदेकं द्रव्यम् अथवा तदनेकमिति । किश्चातः । अनेकत्वे दोष उक्तः । एकत्वे न क्रमेणेतियुगपन्न ग्रहाग्रहौ । विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत् ॥ १५ ॥ यदि यावदविच्छिन्नं नानेकं चक्षुषो विषयः तदेकं द्रव्यं कल्प्यते । पृथिव्यां क्रमेणेतिर्न स्यात् । गमनमित्यर्थः । सकृत्पादप्रक्षेपेण सर्वस्य गतत्वात् । अर्वाग्भागस्य च ग्रहणं परभागस्य चाग्रहणं युगपन्न स्यात् । न हि तस्यैव तदानीं ग्रहणश्चाग्रहणञ्च युक्तम् । विच्छिन्नस्य चानेकस्य हस्त्यश्वादिकस्य अनेकत्र वृत्तिर्न स्यात् , यत्रैव ह्येकं तत्रैवापरमिति कथं तयोविच्छेद इष्यते । कथं वा तदेकं यत्प्राप्तञ्च ताभ्याम् न च प्राप्तमन्तराले तच्छून्यग्रहणात् । सूक्ष्माणाञ्चौदकजन्तूनां स्थूलैः समानरूपाणामनीक्षणं न स्यात् । यदि लक्षणभेदादेव द्रव्यान्तरत्वं कल्प्यते नान्यथा । तस्मादवश्यं परमाणुशो भेदः कल्पयितव्यः । स चैको न सिध्यति । तस्यासिद्धौ रूपादीनां चक्षुरादिविषयत्वमसिद्धमिति सिद्धं विज्ञप्तिमात्रं भवतीति ॥ प्रमाणवशादस्तित्वं नास्तित्वं वा निर्धार्यते । सर्वेषाञ्च प्रमाणानां प्रत्यक्षं प्रमाणं गरिष्ठमित्यसत्यर्थे कथमियं बुद्धिर्भवति प्रत्यक्षमिति । प्रत्यक्षबुद्धिः स्वप्नादौ यथा विनाप्यर्थेनेति पूर्वमेव ज्ञापितम् । सा च यदा तदा । - न सोऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतम् ॥ १६ ॥ यदा च सा प्रत्यक्षबुद्धि(न)भवति इदं मे प्रत्यक्षमिति । तदा न सोऽर्थो दृश्यते । मनोविज्ञानेनैव परिच्छेदात् चक्षुर्विज्ञानस्य च तदा निरुद्ध

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142