Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 55
________________ 31 आलम्बनपरीक्षाव्याख्या सञ्चिताकारमिच्छन्ति केचन'' इति । परमाणुषु प्रत्येकं सञ्चिताकारोऽस्ति । स एव स्थूलविषयः परमाणूनां तरतमभावमनुसृत्य साकारः प्रतिभासते । स च वस्तुसन् । परमाणोः सञ्चिताकारः स्वाकारविज्ञानजनकः द्रव्यत्वात् आलम्बनं स्यात् । अस्य तु उभयाङ्गवत्त्वात् । स च पूर्व सिद्ध एव । कुतो वि कल्प्यते किं सञ्चिताकारः परमाणुरेव किं वा न तथा इति । सर्वोऽर्थो बह्वाकार इति । त एवाणवोऽण्वाकाराः सञ्चिताकाराश्च स्वीकृताः । कथमेकं वस्तु द्वयाकारं न्याय्यम् । बह्वाकाराः सर्वभावाः रूपसमुदायरूपाः पृथिव्यादिचतुर्महाभूतात्मकाः । ते स्वभावतो विशिष्टशक्तियुक्ताः । नीलवर्णाद्याकारः द्रव्यवर्ती इन्द्रियवर्ती च विभिन्नः प्रतीतः । सोऽपि बह्वाकारेषु परमाणौ अस्ति सञ्चिताकारः । अस्यैवाकारस्य चक्षुरादिविज्ञानगोचरत्वात् प्रत्यक्षत्वम् । यद्येवम् । अणूनां विज्ञानं सञ्चिताकारकमिति किं नाह । अणुः सञ्चिताकारः । किं नाह विज्ञानं सञ्चिताकारमिति । केन पुनराह ____ परमाणुष्वस्ति सञ्चिताकार इति । 40 Lit. वदन्ति 41 Kar. 3, a.b. 4' Lit. अभावगत्या or अभावविधया पृलयते । 4. Lit. अणौPage Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142