Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 56
________________ 32 आलम्बनपरीक्षा इदं वचनमेव तत्प्रयोगात्मकं सत् प्रदर्शयति विज्ञानं परमाणुसञ्चिताकारमित्यपि । तथा चेत् द्वयणुकं तदाकारकम् । कस्मात् सञ्चिताकारकम् । रूपपरमाणुसंघाता विभिन्ना एतच्छास्त्रस्वीकृताः । त एव सञ्चितत्वात् न द्रव्यसन्तः इति पूर्ववत् प्रदर्शितम् । किमर्थ पुनर्वचनम् । अस्त्याशयान्तरम् । वस्तुनि विभिन्नरूपेऽपि अयमाकारः सञ्चयमात्रसंमिश्रित इति प्रत्येतव्यम् । विविच्य कथने संञ्चिताकारो न शिष्यते । किञ्च यद्यपि सर्वभावाः परमाणुसंघातात्मकाः । तथापि एकैकस्य वस्तुनस्तारतम्यमस्ति । *"यथावस्तु तत्पश्यामः । यथा च 'नीलरूपं तत्पृथिवीधातुः ।' एवमादि तत्त्ववचनं न्याय्यम् । एवमभ्युपगमे वस्तूनि *"अत्यन्ताभाव (?) वत् उत्पत्तेः प्राग् अतिमात्रासम्भवमनुवर्तेरन् । संभवस्थलं निश्रित्य कृतोऽयं मिथ्याव्यवहारः । तथा चेत् कथं परमाणवो नेन्द्रियदृष्टाः । कथं वा पुनस्तथताज्ञानमात्रदर्शनाः परमाणवः । अण्वाकारो न विज्ञप्तेरर्थः । इति । नायमिन्द्रियजविज्ञप्तेविषय इत्यनिन्द्रियः । अनिन्द्रियार्थः केवलं तथताज्ञानभावितः। का पुनर्युक्तिः । न हि प्रत्यक्षतः परमाण्वाकारो दृष्टः । कठिनतादिवत् । यथा कठिनशीततादि । तत्र नीलादि वस्तुसदपि न चक्षुरादिविज्ञप्तिविषयः । " = द्वयणुक० 45 = प्रतिवस्तु ** Chi, extremely i chih, (R. 155) empty. This means also“ red” रक्त.Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142