________________
32
आलम्बनपरीक्षा इदं वचनमेव तत्प्रयोगात्मकं सत् प्रदर्शयति विज्ञानं परमाणुसञ्चिताकारमित्यपि । तथा चेत् द्वयणुकं तदाकारकम् । कस्मात् सञ्चिताकारकम् । रूपपरमाणुसंघाता विभिन्ना एतच्छास्त्रस्वीकृताः । त एव सञ्चितत्वात् न द्रव्यसन्तः इति पूर्ववत् प्रदर्शितम् । किमर्थ पुनर्वचनम् । अस्त्याशयान्तरम् । वस्तुनि विभिन्नरूपेऽपि अयमाकारः सञ्चयमात्रसंमिश्रित इति प्रत्येतव्यम् । विविच्य कथने संञ्चिताकारो न शिष्यते । किञ्च यद्यपि सर्वभावाः परमाणुसंघातात्मकाः । तथापि एकैकस्य वस्तुनस्तारतम्यमस्ति । *"यथावस्तु तत्पश्यामः । यथा च 'नीलरूपं तत्पृथिवीधातुः ।' एवमादि तत्त्ववचनं न्याय्यम् । एवमभ्युपगमे वस्तूनि *"अत्यन्ताभाव (?) वत् उत्पत्तेः प्राग् अतिमात्रासम्भवमनुवर्तेरन् । संभवस्थलं निश्रित्य कृतोऽयं मिथ्याव्यवहारः । तथा चेत् कथं परमाणवो नेन्द्रियदृष्टाः । कथं वा पुनस्तथताज्ञानमात्रदर्शनाः परमाणवः ।
अण्वाकारो न विज्ञप्तेरर्थः । इति । नायमिन्द्रियजविज्ञप्तेविषय इत्यनिन्द्रियः । अनिन्द्रियार्थः केवलं तथताज्ञानभावितः। का पुनर्युक्तिः । न हि प्रत्यक्षतः परमाण्वाकारो दृष्टः ।
कठिनतादिवत् ।
यथा कठिनशीततादि । तत्र नीलादि
वस्तुसदपि न चक्षुरादिविज्ञप्तिविषयः ।
" = द्वयणुक० 45 = प्रतिवस्तु
** Chi, extremely i chih, (R. 155) empty. This means also“ red” रक्त.