SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 33 आलम्बनपरीक्षाव्याख्या इन्द्रियशक्तेः प्रतिनियतत्वात् । एवमणुरपि। न सर्वसम्मतिबाधः । ननु अणुर्भातु न कठिनता । स्वभावान्तरत्वात् । उच्यते । भौतिकमात्रदशायतनसाधारण्येन पक्षधर्मः स्वीकृतः । अत इदं वचनमदुष्टम् । तथायमुक्तः । "घटशरावादिमतिरिति । ____ एवं पश्यतस्ते घटे शरावे च निष्पन्ना इन्द्रियबुद्धिः। . समा दृश्येत"। - विज्ञप्तेः स्वविषये भेदाभावात् । इन्द्रियबुद्धेः पुरोवर्तिविषयमनुसृत्य आकारोदयाच्च । कथं ज्ञायते विज्ञप्तिविषयो न भिद्यते इति । न घटशरावादीनां बहुषु परमाणुषु विशेषोऽस्ति । इदं वचनमाह । यद्यपि परमाणवः सञ्चिताकारेण विषया भवन्ति । नैवास्ति तु घटादिस्वरूपप्रकाशकाले बहुषु संघातेषु अवयवविशेषरूपम् । तेषां वास्तवाकारात् बहिः विशेषसञ्चिताकारस्यानुपलम्भात् । तत्प्रतीत्य निष्पन्ना इन्द्रियविज्ञप्तिरभिन्नाकारा स्यात् । अनेनांशेन अणुस्वरूपे आलम्बनता सिध्यति । न पुनः तेषामविशेषाकारे प्रत्यवमर्शस्य प्रत्ययः । अध्यवसायान्तरत्वात् । यथा नीलादि प्रतीत्य । आकारभेदाढ़ेद उच्यते चेत् । । * Kar.4 a-b. " More lit. स्वविषये विज्ञप्यभेदात् . 49 Kar.4 c.
SR No.002350
Book TitleAlamban Pariksha
Original Sutra AuthorN/A
AuthorDinnaga, Dharmapala, N Aiyaswami Shastri
PublisherAdyar Library
Publication Year1942
Total Pages142
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy