Book Title: Alamban Pariksha
Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri
Publisher: Adyar Library

Previous | Next

Page 59
________________ आलम्बनपरीक्षाव्याख्या 35 5 अतो ज्ञायते संघाते न वस्तुभावोऽस्ति । इति । सर्वमवयवि आरोपिताकारं नेन्द्रियविज्ञानगोचरः। एवं तावत् पुरस्तादागतं संघाता आकारभेदप्रदर्शकतया इष्यमाणाः परीक्ष्य दूषिता इति । अतो घठशरावादिबुद्धयो न भिन्नवस्त्वालम्बनविषयकाः । सुखदुःखवेदनवत् । तथा च परमाणवो न विषयभेदकाः । आकारश्च न तद्विषयरूपम् । आकारभेदादवयवभेद उच्यते चेत् । इदं वाकयं न अविशेषवस्तु विषयो भवति इति वक्तुमिष्टं सिद्धसाधनम् । ते हि मन्यन्ते । परमाणुवस्तुतोऽभिन्नविषयः । तथापि आकारभेदाढ़ेदः इति । परमाणुरभिन्न इति ममापि संमतम् । अतः सिद्धसाधनम् । परमाणुप्रमाणभेदाभावात् इतीदं वाक्यं] वस्तुभेदः अर्थभेदक इत्यस्य असिद्धिं प्रदर्शयति । अथ वा इदं द्योतयति । घटशरावादीन्द्रिय विज्ञानानां परमाण्वाकरत्वाभावात् नास्त्यालम्बनं परमाणुः] यथान्यविज्ञानस्य । मनो वा अन्येन्द्रियविज्ञानं वा अन्यविज्ञानमुच्यते । नीलप्रत्यये पीताकाराभावात् । इति । परमाणूनां संघातरूपे अविशेषेऽपि इन्द्रियविज्ञानानां विशेषाकारत्वात् अयं तावत् नाण्वाकृति Kar. 5b. " Then follows another interpretation (Chinese Editor). " Lit. वचनम् . 5 Lit: असिद्धिप्रतिवचनम् .

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142