________________
आलम्बनपरीक्षाव्याख्या
35
5 अतो ज्ञायते संघाते
न वस्तुभावोऽस्ति । इति । सर्वमवयवि आरोपिताकारं नेन्द्रियविज्ञानगोचरः। एवं तावत् पुरस्तादागतं संघाता आकारभेदप्रदर्शकतया इष्यमाणाः परीक्ष्य दूषिता इति । अतो घठशरावादिबुद्धयो न भिन्नवस्त्वालम्बनविषयकाः । सुखदुःखवेदनवत् । तथा च परमाणवो न विषयभेदकाः । आकारश्च न तद्विषयरूपम् ।
आकारभेदादवयवभेद उच्यते चेत् । इदं वाकयं न अविशेषवस्तु विषयो भवति इति वक्तुमिष्टं सिद्धसाधनम् । ते हि मन्यन्ते । परमाणुवस्तुतोऽभिन्नविषयः । तथापि आकारभेदाढ़ेदः इति । परमाणुरभिन्न इति ममापि संमतम् । अतः सिद्धसाधनम् । परमाणुप्रमाणभेदाभावात् इतीदं वाक्यं] वस्तुभेदः अर्थभेदक इत्यस्य असिद्धिं प्रदर्शयति । अथ वा इदं द्योतयति । घटशरावादीन्द्रिय विज्ञानानां परमाण्वाकरत्वाभावात् नास्त्यालम्बनं परमाणुः] यथान्यविज्ञानस्य । मनो वा अन्येन्द्रियविज्ञानं वा अन्यविज्ञानमुच्यते । नीलप्रत्यये पीताकाराभावात् । इति । परमाणूनां संघातरूपे अविशेषेऽपि इन्द्रियविज्ञानानां विशेषाकारत्वात् अयं तावत् नाण्वाकृति
Kar. 5b. " Then follows another interpretation (Chinese Editor). " Lit. वचनम् . 5 Lit: असिद्धिप्रतिवचनम् .