Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 54
________________ आलम्बनपरीक्षा केचिदाहुः । चक्षुर्विज्ञानयोः सहोपलम्भे क्रमिकावस्थानदूषणात् ते समकालं व्याप्रियते । द्विविधाकारैतत्पाठिकं मनोविज्ञानं भवति चन्द्रद्वयं पश्यामीति । अन्यः कश्चिदाह । [एकत्वेन] सर्वसंमते चन्द्रे संख्याविपर्ययः । इन्द्रियवैकल्यात् । यदि बाह्यार्थपक्षं नेच्छसि । तदा स्थूलदृष्टिरभिमानमानं स्यात् । [इति । न हि चक्षुर्विज्ञानालम्बनसमनन्तरं मनोविज्ञानं प्रवर्तते । एककालमेव सहोभयाकारं प्रतीत्य प्रवर्तते । कथं तदाध्यवसीयते चन्द्रद्वयं पश्यामीति । शब्दादिप्रत्ययतद्विज्ञानयोरनन्तरं शब्दद्वयोपलम्भ ऐककालिकः कुतो न ज्ञायते । स्वस्थनेत्रस्य मनोविज्ञानं क्रमिकमपि दुरध्यवसायम् । किं निश्रित्य रूपेन्द्रियविज्ञानप्रमेयतद्विशेषा बहवो भावा सिध्यन्ति । एकं चन्द्रं द्विधा समनुपश्यामि इति यदा विज्ञानातिरिक्तं द्रव्यं स्वीकरोति । सोऽपि किं कृत्वा वदेत् चन्द्रद्वयभ्रामकं संख्याविपर्ययम् । विज्ञप्ते बर्बाह्यद्वयम् । परमाणोः संघातस्य च एकाङ्गवैकल्यात् यथोक्तसाधनखण्डनयुक्तिबलाच्च । तद्विषयकं न युक्तम् । एकाङ्गवैकल्यात् । स्वाकारप्रतिभास उत्पादकता चेत्येतद्वयंशमालम्बनम् । परमाणोराधागबैकल्यम् । द्वितीयपक्षे द्वितीयानहानिः । यथाविचारितपूर्व दोषद्वयं पुनरै भेदं ग्राहयति ॥ 3 Kar. 2. c. 38 Kar. 2. d. 39 Ie. विज्ञानार्थयोःPage Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142