SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आलम्बनपरीक्षा केचिदाहुः । चक्षुर्विज्ञानयोः सहोपलम्भे क्रमिकावस्थानदूषणात् ते समकालं व्याप्रियते । द्विविधाकारैतत्पाठिकं मनोविज्ञानं भवति चन्द्रद्वयं पश्यामीति । अन्यः कश्चिदाह । [एकत्वेन] सर्वसंमते चन्द्रे संख्याविपर्ययः । इन्द्रियवैकल्यात् । यदि बाह्यार्थपक्षं नेच्छसि । तदा स्थूलदृष्टिरभिमानमानं स्यात् । [इति । न हि चक्षुर्विज्ञानालम्बनसमनन्तरं मनोविज्ञानं प्रवर्तते । एककालमेव सहोभयाकारं प्रतीत्य प्रवर्तते । कथं तदाध्यवसीयते चन्द्रद्वयं पश्यामीति । शब्दादिप्रत्ययतद्विज्ञानयोरनन्तरं शब्दद्वयोपलम्भ ऐककालिकः कुतो न ज्ञायते । स्वस्थनेत्रस्य मनोविज्ञानं क्रमिकमपि दुरध्यवसायम् । किं निश्रित्य रूपेन्द्रियविज्ञानप्रमेयतद्विशेषा बहवो भावा सिध्यन्ति । एकं चन्द्रं द्विधा समनुपश्यामि इति यदा विज्ञानातिरिक्तं द्रव्यं स्वीकरोति । सोऽपि किं कृत्वा वदेत् चन्द्रद्वयभ्रामकं संख्याविपर्ययम् । विज्ञप्ते बर्बाह्यद्वयम् । परमाणोः संघातस्य च एकाङ्गवैकल्यात् यथोक्तसाधनखण्डनयुक्तिबलाच्च । तद्विषयकं न युक्तम् । एकाङ्गवैकल्यात् । स्वाकारप्रतिभास उत्पादकता चेत्येतद्वयंशमालम्बनम् । परमाणोराधागबैकल्यम् । द्वितीयपक्षे द्वितीयानहानिः । यथाविचारितपूर्व दोषद्वयं पुनरै भेदं ग्राहयति ॥ 3 Kar. 2. c. 38 Kar. 2. d. 39 Ie. विज्ञानार्थयोः
SR No.002350
Book TitleAlamban Pariksha
Original Sutra AuthorN/A
AuthorDinnaga, Dharmapala, N Aiyaswami Shastri
PublisherAdyar Library
Publication Year1942
Total Pages142
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy