________________
आलम्बनपरीक्षाव्याख्या द्विचन्द्र[दर्शन]स्य तदाभत्वेऽपि न तस्य विषयोऽस्ति ।
इति। द्विचन्द्रवत् । तद्विज्ञानस्य तदाकारयुक्तत्वेऽपि अनुत्पादकत्वात् न स विषय आख्यायते ।
"तद्वत् संघातः द्रव्यतोऽसत्त्वेन तद्विज्ञानस्य न कार
णम् । इति । अद्रव्यत्वात् द्विचन्द्रवत् । तदं शस्याकारणत्वसिद्धेः ।
नालम्बनम् । इति । द्विचन्द्रवत् इत्यावर्त्यते । द्विचन्द्रदृष्टान्तेन तदाकारहेतोरनैकान्तिकदोषो ज्ञेयः । विज्ञानार्थस्य न्यायसिद्धत्वात् विरोधदोषश्च । चक्षुः प्रतीत्य विज्ञानं भवति । न नीलादिसंघातं परमाणुं वा । तेनाजनितत्वात् अन्येन्द्रियविज्ञानवत् । अयं दृष्टान्तः सर्वसंमतः । अतोऽन्यो नोच्यते ।
. द्विचन्द्रदृष्टान्तस्य अद्रव्यत्वात् स अकारणतायां भवन् तां साधयति इति ज्ञेयम् । यथोक्तस्य साकारत्वेऽपि न स विषयोऽस्ति । तद्वचनं पुनस्तत्कारणथै विनैव भवति । द्वितीयश्चन्द्रो नास्ति कथमाकारद्वयं प्रत्यक्षं दृश्यते इति वदसि चेत् । तथा हि । अन्तर्वर्तिशक्तिविशेषात् तत्क्रमेण तत्समानाकारं विज्ञानं प्रवर्तते । यथा सुप्तो विषयान् पश्यति । ततो मिथ्याकारित्राणि तानि अध्यवस्यति । [एवं] तच्चन्द्रे अन्यमारोप्य पश्यति।
34 Add here in the Chinese text the character ju “as” *" fang = अंश or भाग?
Lit. दृष्टान्तमादाय.