Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 50
________________ 26 आलम्बनपरीक्षा [आलम्बनत्वं स्यात् ] इत्यनैकान्तिकदोषः सिध्यति । यद्यप्येवम् । तथापि नायं दोषः । अतदाभतया इति । किमर्थमिदम् । स्वप्रतिज्ञाप्रसाधनार्थम् । न परपक्षदोषकथनमात्रेण स्वार्थः सिध्यति । स्वविज्ञानाकाराजनकत्वात् न विषयः परमाणुश्चक्षुरादिवत् । इति प्रतिपादनार्थमिदं वचनम् । यदि इदं तद्धेतुतावचनम् , शास्त्रकारः परपक्षं पुरस्कृत्य परसाधारणं मतं विशदयति इति भवेत् । तदा परप्रतिषेधे मनः प्रकाश्य सिद्धदूषणः तद्वचनं प्रतिक्षिपेत् । तदैकान्तिकः पक्षः स्वीक्रियते । अनैकान्तिकः परपक्षः असंमतिशङ्की । पूर्व परः अनैकान्तिकदूषणमुत्थापयति । कथं दुष्टं स्वपक्षानुमानं कल्पयसि । प्राकृतजना वदन्ति । व्यभिचारि अनियतमसाधनमिति । तत् संदेहप्रापकम् । तस्मात् अन्यत् प्रमाणं स्थापनीयम् । अतदाभ इतीदं अनिर्धारितस्वभावेषु परमाणुषु कदाचित् स्यात् । यथाकारं विज्ञानमुदेतीति यनिर्धारणम् । तदभावात् स्पष्टं ज्ञायते निर्धारणस्याप्यस्यानवकाश इति । अनिर्धारितस्वभाववचनौचित्यात् । तत्कारणं नालम्बन मिन्द्रियपरमाणुवत् इति केवलं भवति । अन्येऽपि विज्ञानकरणविशेषाः चक्षुर्विज्ञानसाधनानि प्रथन्ते न पुनः परमाणुस्वरूपप्रत्यायकाः । अतदाकारत्वात् । इन्द्रियविज्ञानवत् विज्ञानान्तराणि वाच्यानि । अक्षवद्वचनं वस्तुतः प्रदर्शनार्थम् । दृष्टान्तान्तरमप्यर्थापत्त्या आपतति । इदं कारणताया वचनमपि अपार्थकम् । इति । Lit. पुरःसाधयित्वा for परसंमतम्Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142