Book Title: Alamban Pariksha
Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri
Publisher: Adyar Library

Previous | Next

Page 48
________________ आलम्बनपरीक्षा द्वौ वादिनौ आहतुः । तदाकारयुक्तत्वहेतुर्नोच्यते । हेतुत्वादिसाधनहेत्वादेरिव अस्य हेतोदृष्टान्तो नास्तीति चेत् । परमाणुसामान्यलक्षणमालम्बनं तत्साधयति । न च विज्ञानस्य बहिर्द्रव्यं प्रत्ययः । इति यदि स्व[पक्षं] स्वीकरोषि । [तदा] धर्मिणां स्वलक्षणविरोधः स्यात् । तथा न धर्मानुशंसनं प्रसिध्येत् । यत् इदं परस्य संमतं तदेव दृष्टान्तीक्रियते । इति यथोक्तमेव इति चेत् । साध्येऽपि तत्समानम् । इति । प्रमाणाग्रमनस्कस्तु आह । वादमूलं हेतुद्वयं येन हेतुना विदितम् । साधारणसिद्धदृष्टान्ताभावात् नैवास्त्ययं हेतुः । अतः केन तथा तदाकारयोगहेतुर्भवेत् । ___ अथ पुनः स्ववादस्य युक्तिरव्यभिचारिणी प्रदर्शयिष्यते । पञ्चमीविभक्तिनिर्देशेन परसंमतिः प्रकाशिता । यद्यपि कारणम् । इति । यथासंमतम् । "अनुपलभ्यमानपदार्थस्य असत्त्वात् परमाणुरकारणम् । किन्तु परमाणुकायस्य तत्कारणता तथापि केवलमसंयुक्तस्य आलम्बनता उच्यते। तदाकार[विज्ञान]भावात् । इति । परमाण्वाकार इत्येतदाह । इन्द्रियविज्ञानस्य परमाणुन विषयः अक्षवत् इति । यथा इन्द्रियं विज्ञानसंनिकर्षाश्रयहेतुरपि न तद्विषयः । अनिन्द्रियाकारत्वात् । तथा परमाणुरपि । अतदाकारा न तद्विषया इति यत् । तदर्थमाह ।.. 1 Lit. विरोधदोषः 16 Kar. 1, a-b. Lit. अविद्यमान

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142