________________
आलम्बनपरीक्षा द्वौ वादिनौ आहतुः । तदाकारयुक्तत्वहेतुर्नोच्यते । हेतुत्वादिसाधनहेत्वादेरिव अस्य हेतोदृष्टान्तो नास्तीति चेत् । परमाणुसामान्यलक्षणमालम्बनं तत्साधयति । न च विज्ञानस्य बहिर्द्रव्यं प्रत्ययः । इति यदि स्व[पक्षं] स्वीकरोषि । [तदा] धर्मिणां स्वलक्षणविरोधः स्यात् । तथा न धर्मानुशंसनं प्रसिध्येत् । यत् इदं परस्य संमतं तदेव दृष्टान्तीक्रियते । इति यथोक्तमेव इति चेत् । साध्येऽपि तत्समानम् । इति । प्रमाणाग्रमनस्कस्तु आह । वादमूलं हेतुद्वयं येन हेतुना विदितम् । साधारणसिद्धदृष्टान्ताभावात् नैवास्त्ययं हेतुः । अतः केन तथा तदाकारयोगहेतुर्भवेत् ।
___ अथ पुनः स्ववादस्य युक्तिरव्यभिचारिणी प्रदर्शयिष्यते । पञ्चमीविभक्तिनिर्देशेन परसंमतिः प्रकाशिता ।
यद्यपि कारणम् । इति । यथासंमतम् । "अनुपलभ्यमानपदार्थस्य असत्त्वात् परमाणुरकारणम् । किन्तु परमाणुकायस्य तत्कारणता तथापि केवलमसंयुक्तस्य आलम्बनता उच्यते।
तदाकार[विज्ञान]भावात् । इति । परमाण्वाकार इत्येतदाह ।
इन्द्रियविज्ञानस्य परमाणुन विषयः अक्षवत् इति । यथा इन्द्रियं विज्ञानसंनिकर्षाश्रयहेतुरपि न तद्विषयः । अनिन्द्रियाकारत्वात् । तथा परमाणुरपि । अतदाकारा न तद्विषया इति यत् । तदर्थमाह ।..
1 Lit. विरोधदोषः 16 Kar. 1, a-b.
Lit. अविद्यमान