________________
आलम्बनपरीक्षाव्याख्या
स विषय इत्यादि । स स्वभावो यदुत स्वसमानाकार प्रत्यायननिर्धारणम् । कथं पुनस्तत्प्रतीयते ।
तदाकारतया" जायमानत्वात् इति ।
एतन्मनो वचनम् । तदाकारसरूपं विज्ञानमुदेति । [यत् ] ३°तदानुरूप्यं तत्तु तद्विषयप्रत्यायनमुच्यते । वस्तुतो विज्ञानं विना विज्ञेयान्तरस्यासतः विज्ञानोत्पादकहेतुता कुतः । तथापि अस्त्येव पूर्व विषयाकारः । स तदात्मनि आदर्श बिम्बवदर्ग्यते । इदमेव तद्विषयप्रत्यायकत्वेन संमतम् । द्वयणुकस्वरूपं तु विज्ञानाकारं नानुवर्तते । येन परमाणुरपि विषयः स्यात् ।
कारणमपि इति । नैतावता कारणमालम्बनम् ।
अक्षवत् इति । कारणत्वेऽपि नालम्बनम् । यदि कारणत्वेन आलम्बनं स्वीक्रियते । इन्द्रियमपि एतत्समानं "तत् साधयेत् । तदाकारयुक्तत्वहेतोरसिद्धिदोषः पूर्वमुक्त एव इत्युक्तं भवति । तथा च मनो न केवलं कारणतया प्रथते । इन्द्रियतया आलम्बनाकारतयापि । यद्युक्तरीत्या कारणं साधयसि । तदा तस्य कारणत्वात् कथमालम्बनत्वम् । इन्द्रियस्यापि [कारणत्व] मस्ति
Is Lit. प्रत्येत. 1 Lit. तदाकारवत् 10 Lit. तद्रूपानुसरणात् 21 = विज्ञानात्मनि 2 = आलम्बनम्